॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥
समानाधिकरणम् ॥ ६ ॥
एकस्यामेव वाजसनेयाखायाम् अग्निरहस्ये *स आत्मानमुपासीत मनोमयम् प्राणशरीरम् भारूपम् सत्यसङ्कल्पमाकाशात्मानमि*(वाज- सनेयके अग्निरहस्ये)ति श्रुतशाण्डिल्यविद्यात: *मनोमयोऽयम् पुरुषो भास्सत्यम् तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा, स एष सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिस्सर्वमिदम् प्रशास्ति यदिदम् किञ्चे*(बृह.७-६-२)ति श्रुता शाण्डिल्यविद्या भिद्यते । सत्यसङ्कल्पत्वरूपवशित्वरूपगुणभेदादिति प्राप्त उच्यते –
समान एवम् चाभेदात् ॥३-३-१९॥
उभयत्रापि मनोमयत्वादिके समाने सति वशित्वादेस्सत्यसङ्कल्प-त्वविततिरूपत्वेन वशित्वसत्यसङ्कल्पत्वयोरभेदाद्रूपभेदाभावाद्विद्यै-क्यमिति सिद्धान्तः ।
इति समानाधिकरणम् ॥