॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥
सम्भृत्यधिकरणम् ॥ ८ ॥
ब्रह्मज्येष्ठा वीर्या सम्भृतानि ब्रह्माग्रे ज्येष्ठम् दिवमाततान । ब्रह्मा भूतानाम् प्रथमो हि जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुम् कः*(तै.यजु.अष्ट. २-४-७) इति राणायनीयानाम् खिलमन्त्रश्श्रूयते । अत्र परिच्छेदातीते ब्रह्मणि व्यापकत्वादिकथनस्य स्वरूपोपदेशार्थत्वाभावेन उपासनार्थत्वस्य सिद्धतया स्वप्रकारतयोपासन विध्यश्रवणेन अनारभ्याधीतस्य द्यु॒व्याप्त्यादेः प्रकरणान्तरगतविद्यार्थत्वे वक्तव्ये नियामकाभावादस्थूल-त्वादिवत् सत्यत्वादिवच्च सर्वविद्यार्थत्वे प्राप्त उच्यते –
सम्भृतिद्युव्याप्त्यपि चातः॥३-३-२३॥
सम्भृतिद्युव्याप्तीति द्वन्द्वादेकवद्भावः । सम्भरणम् द्युव्यापनञ्च अतस्स्थानवशात् व्यवतिष्ठते । अल्पस्थानासु दहरशाण्डिल्यविद्यासु अल्पत्वद्युव्यापकत्वयोर्विरोधात् लिङ्गवशादल्पायतनानवरुद्ध विद्यास्वेव व्यवतिष्ठते । न चैवमल्पायतनासु दहरशाण्डिल्यविद्यासु विरोधादनुप-
सम्हारेऽपि । स्वाभाविकानन्त्यस्याप्युपसम्हाराभावेन सत्यत्वज्ञानत्वा-नन्तत्वादेस्सर्वविद्यानुसन्धानस्य *आनन्दादयः प्रधानस्ये*(ब्र.सू.३-३-११) त्यधिकरणे सिद्धस्य विरोधस्स्यादिति वाच्यम् । स्वाभाविकानन्त्यस्य औपाधिकाल्पायतनत्वस्य चानुसन्धाने विरोधाभावात् ॥
इति सम्भृत्यधिकरणम् ॥