॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥
सर्वाभेदाधिकरणम् ॥ ३ ॥
छान्दोग्यवाजसनेयकयोः कौषीतकिनामुपनिषदि च दशमेऽध्याये *यो ह वै ज्येष्ठम् च श्रेष्ठम् च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवती*(छान्.५-१-१) त्यारभ्य प्राणविद्या पठ्यते । तत्र सर्वगतस्य प्राणस्य ज्यैष्ठ्यश्रैठ्य-गुणकत्वम् वाक्चक्षुश्श्रोत्रमनसाम् वसुमत्तासम्पादकत्वसमविषमभूतलादि-प्रदर्शकत्वसम्पद्धेतु भूतवेदशास्त्रतदर्थश्रवणादिसम्पादकत्वस्रक्चन्दनादि-विषयज्ञानरूपभोगायतनत्वलक्षणवसिष्ठत्व प्रतिष्ठात्वसम्पत्त्वायतनत्व-रूपगुणवत्त्वम् वागादीनाम् च श्रैष्ठ्यविषयपरस्परविवादेन ब्रह्मसभो-पसर्पणम् *यस्मिन्व उत्क्रान्ते शरीरम् पापिष्ठतरम् दृश्यते स वश्श्रेष्ठ* (छान्.५-१-७)इति ब्रह्मवचनम् तत्परिचिक्षिषया वागादीनामेकैकस्य शरीरादुत्क्रम्य पर्यटनम् तस्मिन् शरीरे इन्द्रियाणाम् च यथापूर्व-मवस्थानम् प्राणस्योत्क्रमणप्रवृत्तौ तेषाम् विशरणम् ततो भीतानाम् वागादीनाम् *त्वम् नः श्रेष्ठाऽसि मोत्क्रमीः*(छान्.५-१-१२) इति मुख्यप्राणम् प्रति प्रार्थनमित्येतत्सर्वम् क्रमेण वर्णितम् । कौषीतकि-शाखायान्तु छान्दोग्यवाजसनेयकवत् *यदहम् वसिष्ठाऽस्मि त्वम् तद्वसिष्ठोऽसी*(छान्.५-१-१४)त्यनेन प्रकारेण प्राणे वागादिगतवसिष्ठ-त्वादिसमर्पणम् नोक्तम् । अतो वागादिगत वसिष्ठत्वादेः प्राणाधीनत्वा-प्रतीत्या वागादीनान् स्वातन्त्र्यप्रतीतेः छान्दोग्यवाजसनेयकाम्नात प्राणविद्यतः कौषीतक्याम्नातप्राणविद्याया भेदप्रतिभोद्गमः । तथा तस्यामेवोपनिषदि चतुर्थेऽध्याये *अथातो निश्श्रेयसादानम् सर्वा वै देवता अहम् श्रेयसे विवदमाना अस्माच्छरीरादुच्चक्रमुस्तद्दारुभूतम् शिश्ये अथैनम् वाक्प्रविवेश तद्वाचाऽवदच्छिश्य एवे*(कौषी.२-१४)त्यादिना *अथैनच्चक्षुः प्रविवेश तद्वाचाऽवदच्चक्षुषा पश्यच्छिश्य एव अथैनत्प्राणः प्रविवेश तत्तत एव समुत्तस्थौ तद्देवाः प्राणे निश्श्रेयसम् विजित्य प्राणमेव प्रज्ञात्मानमभिसम्भवन्नि*(कौषी.२-१४)ति प्राणराहित्यदशायामपि वागादीनाम् स्वकार्यकरत्वप्रदर्शनेन छान्दोग्यैक्याप्रतीतेरिति पूर्वपक्षे प्राप्त उच्यते –
सर्वाभेदादन्यत्रेमे ॥ ३-३-१० ॥
बहुसारूप्यप्रतीतौ किञ्चिद्वैरूप्यस्य प्रत्यभिज्ञाविरोधित्वाभावाद्विद्यै-क्यमिति । प्रतिज्ञातप्राणज्यैष्ठ्यश्रैष्ठ्योपपादनप्रकारस्य तिसृष्वपि शाखास्वभेदाच्छाखान्तरीयविद्यायाम् शाखान्तरविद्यागतगुणोपसम्हारः कर्तव्य इति सूत्रार्थः ॥
इति सर्वाभेदाधिकरणम् ॥