॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥
साम्परायाधिकरणम् ॥ १२ ॥
कौषीतकिनामुपनिषदि – *स आगच्छति विरजानदीम् मनसात्येति तत्सुकृतदुष्कृते धूनुते*(कौषी. १-३-४) इति विरजानद्यतिक्रमणहेतुतया तदनन्तरभाविसुकृतदुष्कृतधूननश्रवणात् *अश्न इव रोमाणि विधूय पापम् चन्द्र इव राहोर्मुखात्प्रमुच्य । धूत्वा शरीरमकृतम् कृतात्मा ब्रह्मलोकमभिसम्भवानी*(छान्.८-१३-१)ति *तस्य पुत्रा दायमुपयन्ति सुहृदस्साधुकृत्याम् द्विषन्तः पापकृत्यामि* ति श्रुत्योः विरोधे देहवियोग पुत्रदायसङ्क्रान्तिसमकाल एव सुकृतदुष्कृतहानसङ्क्रमण-श्रवणात् कर्मैकदेशस्य देहवियोगकाले नाश: । शेषस्तु विरजानद्यति-क्रमणकाल इति प्राप्त उच्यते –
साम्पराये तर्तव्याभावात्तथा ह्यन्ये ॥ ३-३-२७ ॥
साम्पराये देहापक्रमणकाल एव सुकृतदुष्कृतविनाशः । तत ऊर्द्ध्वम् तत्साध्यस्य प्राप्तव्यस्य सुखदुःखफलस्याभावात् । तथा ह्यन्ये शाखिनः ब्रह्मविदश्शरीरत्यागानन्तरम् फलानु भवाभावमधीयते – *तस्य तावदेव चिरम् यावन्न विमोक्ष्येऽथ सम्पत्स्य*(छान्.६-१४-२) इति ।
छन्दत उभयाविरोधात् ॥ ३-३-२८ ॥
अर्थस्वाभाव्याद्देह वियोगकाल एव कर्मनाश इति निश्चिते तयोर-विरोधाय *स आगच्छति विरजाम् नदीम् मनसात्येति तत्सुकृतदुष्कृते धूनुते*(कौषी.१-३-४) इति वाक्यस्थस्य तच्छब्दस्य छन्दतः यथेष्टमन्व-योंऽङ्गीकर्तव्यः ।
गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॥ ३-३-२९ ॥
सुकृतदुष्कृतैकदेशस्य देहवियोगकाले हानि:, शेषस्याध्वनि हानिरित्यु-भयथाभ्युपगम एव देवयानगतिश्रुतेरर्थवत्वम् । इतरथा हि देहवियोग-काल एव सर्वकर्मक्षये सूक्ष्मस्यापि विनाशेन केवलस्यात्मनो देवयाना-सम्भवेन देवयानश्रुतेरर्थशून्यत्वमेव स्यात् । उत्तरमाह –
उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॥ ३-३-३० ॥
देहोत्क्रान्तिकाल एव सर्वकर्मक्षय उपपन्नः । क्षीणकर्मणोऽपि मुक्तस्य *स एकधा भवति त्रिधा भवती*(छान्.७-२६-२)ति शरीर-लक्षणार्थोपलब्धेः क्षीणकर्मणोऽपि विदुषः विद्यामाहात्म्यात् सूक्ष्मदेहानु-वृत्तिसम्भवेन देवयानगमनसम्भवात् । यथा लोके सस्यादिसमृध्यर्थ-मारब्धेऽपि तटाकादिके सस्यादिसमृद्धीच्छायाम् तटाकादिनिर्माणहेतु-भूतायाम् नष्टायामपि पानीयपानाद्यर्थतया तटाकादि स्थाप्यते एवम् कर्महेतुकसूक्ष्मदेहो नष्टेऽपि कर्मणि विद्याफलाय स्थाप्यते ।
ननु देहवियोगकाल एव कर्मक्ष्य इति न सम्भवति *क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावर*(मुण्ड.२-२-८) इति श्रुत्या सर्वकर्मविना-शस्य विद्यारम्भकाल एव *तदधिगम उत्तरपूर्वाघयोरि* (ब्र.सू.४-१-१३)ति सूत्रप्रतिपादनादिति चेन्न । ब्रह्मविद इष्टानिष्टफल-दित्सालक्षणपरमात्म-प्रीत्यप्रीतिरूपसुकृतदुष्कृतयो श्चतस्रोऽवस्थाश्श्रुताः विनाशोऽश्लेषः धूनन-मुपायनञ्चेति । विनाशः पूर्वाघविषयः । कर्मफलदित्साप्रतिबन्ध-लक्षणोऽश्लेषः उत्तराघविषयः । तौ यद्ययमुपासकः प्रकृतमुपासनम् समापयेत् पूर्वोत्तरयोः कर्मणोः फलम् न दास्यामीत्येवंरूपभगवत्सङ्कल्परूपौ उत्तरपूर्वाघाश्लेषविनाशौ दर्शनसमानाकारज्ञानारम्भकाल एव भवत इति *तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशावि*(ब्र.४-१-१३) ति सूत्रोक्तन्यायेन प्रतिपद्यते । अन्तिमप्रत्ययपर्यन्तोपासन-निर्वृत्त्यनन्तरम् विनष्टाश्लिष्टयोरेव कर्मणोः फलम् नैव दास्यामीति भगवत्सङ्कल्परूपम् विधूननम् देहवियोगकाले भवति । तस्मिन्नेव सूत्रे तत्प्रियाप्रियजनेषु एतदीयसुकृतदुष्कृतानुरूपेष्टानिष्टफलदित्सालक्षणमुपा-यनञ्च भवतीति देहवियोगकाल एव सर्वकर्मक्षय उपपन्नः ।
ननु देहवियोगकाल एव कर्मनाशे वसिष्ठावान्तरतपः प्रभृतीनाम् पुत्र-जन्मादिनिमित्तसुखदुःखानुभवो न स्यादित्यत्राह –
यावदधिकारमवस्थितिराधिकारिकाणाम् ॥ ३-३-३१ ॥
आधिकारिकाणाम् वसिष्ठादीनाम् यावदधिकारम् कर्मावतिष्ठते । प्रारब्धस्य भोगैकनाश्यत्वात् ।
यत्तूक्तम् परै: *तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमम् साम्यमुपैती*(मुण्ड.३-१-३)ति श्रुतायाम् परमसाम्यापत्तौ निरञ्जनस्य गमनासम्भवात् परमसाम्यापत्तेर्देशान्तरप्राप्त्यनपेक्षत्वाच्च, देवयानस्य पथो नावश्यकता । आत्मैकत्वदर्शिनामाप्तकामादीनाम् इहैव दग्धाशेष-क्लेशबीजानाम् आरब्धाशेषकर्माम्शक्षपणव्यतिरेकेणापेक्षितव्याभावात् । पर्यङ्कविद्यादिषु तु पर्यङ्कारोहणब्रह्मगन्ध प्रवेशादीनामिष्टदेशान्तर-प्राप्तिसापेक्षत्वात् तत्रैव पन्था अपेक्षितः । न हि ग्रामापेक्षित: पन्था आरोग्यप्राप्तावपेक्ष्यते इति *गतेरर्थवत्त्वमुभयाथान्यथा हि विरोधः* (ब्र.सू.२-३-२९) *उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवदि*(ब्र.सू.३-३-३०) ति सूत्राभ्याम् प्रतिपादितम् । तथा *एवमेवास्य परिद्रष्टुरिमाष्षोडशकलाः पुरुषायणाः पुरुषम् प्राप्यास्तम् गच्छन्ती*(प्रश्न.६-५)ति श्रुतेः ब्रह्मविदः प्राणानाम् ब्रह्मण्येव लय: *कलाः पञ्चदश प्रतिष्ठा*(मुण्ड.३-२-७) इति कलानाम् पृथिव्यादिस्वकृतौ लयप्रतिपादनम् तु लौकिकदृष्ट्यभिप्राय-मिति *वागादिलयाधिकरणे*(वागादिलयाधिकरणम्.शम्.भा.४-२-८) स्थितम् । सोऽपि कलाप्रळयो निरवशेष इति *भिद्येते तासाम् नामरूपे पुरुषः वागादि इत्येवम् प्रोच्यते स एषोऽकलोऽमृतो भवती* ति *अविभागो वचनादि*(ब्र.सू.४-२-१५)त्यत्र प्रतिपादितम् । अतो न मुक्तस्य अर्चिरादिना मार्गेण गमनमित्युक्तम् । *अनियमस्सर्वेषामवि-रोध* (ब्र.सू.३-३-३२) इत्यस्मिन्नधिकरणेऽपि उपकोसलविद्यायाञ्च अर्चिरादि-गतेराम्नानात् तद्विद्यानिष्ठानामेव अर्च्चिरादिगतिरिति पूर्वपक्षम् कृत्वा-श्रवणात् *शुक्लकृष्णे गती होते जगतश्शाश्वते मते । एकया यात्यना-वृत्तिमन्यया वर्तते पुनरि*(गी.८-१६)त्यनुमानशब्दितात् स्मरणाच्च सर्वाविद्यासाधारण्यमाश्रयणीयम् । द्विराम्नानस्य उभयत्र चिन्तनार्थत्वे-नाप्युपपत्तेरिति परैरप्युक्तत्वात् तद्विरोधः । न च सगुणविद्यासाधारण्य- मेवास्मिन्नधिकरणे प्रतिपादितम् न तु निर्गुणविद्या साधारण्यमपीति वाच्यम् निर्गुणविद्याया एवाप्रामाणिकत्वात् । *स वा एष महानज आत्मा योऽयम् विज्ञानमयः प्राणेषु*(बृह.६-४-२२) *य एषोऽन्तर्हृदया-काशस्तस्मिन् शेत*(बृह.४-१-१०) इति बृहदारण्यकषष्ठाध्यायगताया निर्गुणविद्यात्वेन पराभिमताया दहरविद्याया: छान्दोग्यगतसगुणविद्यैक्यस्य हृदयायतनत्वसेतुत्वलोकासम्भेदहेतुत्वादि-सामान्येन *कामादी-तरत्र तत्र चायतनादिभ्य*(ब्र.सू.३-३-३८) इत्यस्मिन्नधिकरणे सूत्रकृतैव समर्थितत्वात्, परैरपि तथा व्याख्या-तत्वात् । न च निर्गुणब्रह्मस्तुत्यर्थमेव सगुणविद्यासम्बन्धिगुणो-पसम्हारस्सम्भवतीति वाच्यम् निर्गुणस्य परस्य ब्रह्मणः गुणवत्तया अवरब्रह्मत्वेन प्रतिपादनस्य प्रत्युत निन्दात्वेन स्तुतित्वासम्भवात् । अत एव *व्यतिहारो विशिम्षन्ति हीतरवदि* (ब्र.सू.३-३-३६)त्यत्र, *तद्योऽहम् सोऽसौ योऽसौ सोऽहमि*(जाबाल.उ)ति असम्सारिण ईश्वरचिन्तने *ब्रह्मदृष्टिरुत्कर्षादि*(ब्र.सू.४-१-५)ति न्यायोऽनुगृहीतो भवतीति ईश्वरस्य असम्सार्यात्मचिन्तननिष्कर्षः प्रसज्येत । अतो द्विरूपामतिर्न कर्तव्येति पूर्वपक्षम् कृत्वा आम्नानबलात् द्विरूपाऽपि मतिः कर्तव्या । नन्वेवमुत्कृष्टस्यापि निकर्षप्रसङ्ग इत्युक्तम् । तत्किमिदानीम् सगुणो ब्रह्मण्युपास्यमाने तस्य वस्तुतो निर्गुणस्य निकृष्टता भवति । ननु कस्मैचित्फलाय निर्गुणस्य गुणवत्तया ध्यानमात्रम् क्रियते । न तावता तस्य निकृष्टता भवतीति चेत् इहापि व्यतिहारानुचिन्तन-मात्रमुपदिश्यते फलाय । न तु निकृष्टता भवत्युत्कृष्टस्येत्येवम् निर्गुणस्य सगुणत्वे निकर्षप्रसक्तिमभ्युपेत्य वस्तुतो निकर्षो नास्तीति शङ्करभाष्यवाचस्पत्ययोर्व्याहृतत्वेन निन्दावहस्य गुणकीर्तनस्य स्तुत्यर्थत्वासम्भवात् ।
किञ्च लोके हि स्तुतिर्विधेयरुच्युत्पादनेन सप्रयोजना | न चात्र निर्गुणस्य तज्ज्ञानस्य वा विधेयत्वमस्ति न वा गुणवत्त्वेन स्तुतेर्नि-र्गुणप्रतिपत्त्युपयोगोऽस्ति । किञ्च निर्गुणविद्याम्नातवशि-त्वादिगुणानाम् न छान्दोग्यगतसगुणविद्यायामाध्यानायोपसम्हारसम्भवः । यत्र वशित्वादयः श्रूयन्ते तत्रापि तेषाम् ध्येयत्वेनाभिधानात् अन्यत्राम्नातानामपि न ध्येयत्वम् सम्भवतीति तैरेवोक्तत्वात् । स्तुत्यर्थत्वमपि न सम्भवति सत्यकामत्वादिसामर्थ्यादेव सर्वेश्वरत्वसिध्या स्तुतेस्सिद्धत्वेन सत्यकामत्वान्तर्भूतवशित्वकीर्तनेन स्तुतेरसम्भवात् । कठवल्लीषु पराभिमतनिर्गुणब्रह्मप्रकरणे *शतम् चैका च हृदयस्य नाड्यस्तासाम् मूर्धानमभिनिस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति*(कठ.२-६-१६) इति उत्क्रान्तिगत्योः प्रतिपादनात् । निर्गुणविद्यात्वेन पराभिमतायाम् भूमविद्यायामपि *स एकधा भवति त्रिधा भवती*(छान्.७-२६-२)ति अनेकशरीरपरिग्रहश्रवणेन निर्विशेष ब्रह्मभावापत्तेरप्रतिपादनात् । न चास्य वाक्यस्य सगुणविद्यासूत्कर्षः कल्पनीय इति वाच्यम् । *सर्वम् ह पश्यःपश्यति सर्वमाप्नोति सर्वशः* (छान्.७-२६-२)इति प्राक्प्रस्तुतस्यैव *स एकधा भवती*(छान्.७-२६-२) ति तच्छब्देन परामर्शेन तथोत्कर्षकल्पने प्रमाणाभावात् । तथा निर्गुण-विद्यात्वेन पराभिमतप्रजापतिविद्यायाम् *एवमेवैष सम्प्रसादोऽस्माच्छरी-रात्समुत्थाय परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते*(छान्.८-१२-१) इति शरीरदुत्क्रान्तेः श्रवणात् । न च शरीरात् समुत्थानम् शरीर-विविक्तात्मसाक्षात्कार इति वाच्यम् । *अशरीरो वायुरभ्रम् विद्युत्स्तन-यित्नुरशरीराणि यथैतान्यमुष्मादाकाशात् समुत्थाय परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यन्ते*(छान्.८-१२-२) इति दृष्टान्तानुगुण्येवैव दार्ष्टान्तिकेऽप्यर्थस्य वर्णनीयत्वात् । शरीरविविक्तात्मसाक्षात्कारस्या-पदार्थत्वादवाक्यार्थत्वात् । तथा निर्गुणविद्यात्वेनाभिमतसद्विद्यायाम् *तस्य तावदेव चिरम् यावन्न विमोक्ष्येऽथ सम्पत्स्ये*(छान्.६-२४-३) इति प्रारब्धावसाने ब्रह्मसम्पत्तिमुक्त्वा तदुत्तरखण्डे *यदाऽस्य वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्याम् देवतायामि*(छान्.६-८-६)ति ब्रह्मसम्पत्त्यर्थतया उत्क्रान्ते: प्रतिपादितत्वाच्च । तथा वाजस-नेयके षष्ठे तदभिमतनिर्गुणविद्यायामेव *अणुः पन्था विततः पुराणो माम्स्पृष्टाऽनुवित्तो मयैव । तेन धीरा उपयन्ति ब्रह्मविदस्स्वर्गम् लोकमित ऊर्ध्वा विमुक्ताः*(बृह.६-४-८) इति गतिप्रतिपादनाच्च । *समाना चासृत्युपक्रमादमृतत्वञ्चानुपोष्ये*(ब्र.सू.४-२-७)ति विद्वदवि-दुषोरुत्क्रान्तिसाम्यस्य सूत्रकृता कण्ठत एव प्रतिपादितत्वाच्च अर्चिरादिगतिस्सगुणविद्याविषयेत्येतन्न प्रामाणिकानाम् हृदयमधिरोहति । *कार्यम् बादरिरस्य गत्युपपत्तेः*(ब्र.सू.४-३-६) इति नित्यपरब्रह्म-विद एवार्चिरादिगतिरिति बादरिमतस्य *परम् जैमिनिर्मुख्यत्वादि*(ब्र. सू.४-३-११)ति परब्रह्मोपासकानामर्चिरादिगतिरिति जैमिनिमतापेक्षया प्राङ्निर्दिष्टस्य सिद्धान्तसूत्रत्वायोगात् *चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजनिः*(ब्र.सू.३-१-९) *सुकृतदुष्कृते एवेति तु बादरिः*(ब्र.सू.३-१-११) *उत्क्रमिष्यत एवम् भावादित्यौडुलोमिः*(ब्र.सू.१-४-२१) *अवस्थि-तेरिति काशकृत्स्नः*(ब्र.सू.१-४-२२) *स्वामिनः फलश्रुतेरित्यात्रेयः*(ब्र.सू. ३-४-४४) *आर्त्विज्यमित्यौडुलोमिः तस्मै हि परिक्रीयते*(ब्र.सू.३-४-४५) इत्यादिषु सर्वत्र पाश्चात्यस्यैव सूत्रकृदभिमतत्वदर्शनेन *कार्यम् बादरिरस्यगत्युपपत्तेरि*(ब्र.सू.४-३-६)ति बादरिमतस्य सिद्धान्तसूत्रत्वा-भ्युपगमस्यासङ्गतत्वात् । निर्विशेषब्रह्मभावस्यैव मुक्तिरूपत्वे *सङ्कल्पादेव तच्छ्रुतेः*(ब्र.सू.४-४-८) *अभावम् बादरिराह ह्येवम्* (ब्र.सू.४-४-१०) *भावम् जैमिनिर्विकल्पामननात्*(ब्र.सू.४-४-११) *द्वादशाहवदुभयविधम् बादरायणोऽत*(ब्र.सू.४-४-११) इत्यादीनाम् *अनावृत्तिश्शब्दात्*(ब्र.सू.४-४-२२) इत्यन्तानामर्थशून्यतैव स्यात् । *न च सङ्कल्पादेव तच्छुतेरि*(ब्र.सू.४-४-१०)ति सूत्रे इत उपरि सगुणविद्या-फलप्रपञ्च इति कल्पतरुकारेणोक्तत्वात् सर्वम् सगुणविद्याफलभूतावान्त-रमुक्तिविषयमिति वाच्यम् । यदि हि मुक्तिद्वैविध्यम् सूत्रकृदभिमतम् स्यात् तर्हि *य आत्मा अपहतपाप्मे*(छान्.८-७-१)त्यादिमुक्तौ ब्रह्मरूपा-विर्भाववाक्यम् अवान्तरमुक्तिपरम् *एवम् वा अरेऽयमात्मा अनन्तरोऽ-बाह्यः कृत्स्नः प्रज्ञानधन एवे*(बृह.५-३-१)ति निरस्ताशेषप्रपञ्चबोधा-त्मकत्वेन स्वेन रूपेण निष्पत्तिप्रतिपादकम् वाक्यम् तु परममुक्ति-परमिति व्यवस्थायास्सुवचतया व्यावहारिकपारमार्थिकत्वाभ्याम् व्यवस्थाप्रतिपादकत्वेन त्वदभिमतस्य *एवमप्युपन्यासात् पूर्वभावाद-विरोधम् बादरायण*(ब्र.सू.४-४-७) इति सूत्रस्यासङ्गतिप्रसङ्गात् । तथा *अशरीरम् वाव सन्तम् न प्रियाप्रिये स्पृशत*(छान्.८-१२-१) इति अशरीरत्वप्रतिपादकम् वाक्यम् परममुक्ति परम् *स एकधा भवति त्रिधा भवती*(छान्.७-२६-२)ति शरीरयोगप्रतिपादकम् वाक्यम् अवान्तरमुक्ति-परमिति व्यवस्थाया वक्तुम् सुशकत्वेन सत्यामिच्छायाम् सशरीरत्वम् अन्यदा अशरीरत्वमिति व्यवस्थाप्रतिपादकत्वेन त्वदभिमतस्य *द्वादशा-हवदुभयविधम् बादरायणोऽत*(ब्र.सू.४-४-१२) इति सूत्रस्यासङ्गति-प्रसङ्गात् । *अत एव चानन्याधिपतिरि*(ब्र.सू.४-४-९)ति सूत्रे अत एव सत्यसङ्कल्पत्वात् चशब्दोक्तायास्स *स स्वराड् भवती*(छान्.७-२५-२) ति श्रुतेश्चानन्याधिपतिर्मुक्तो भवति नास्यान्योऽधिपतिर्भवतीत्यर्थः । इदमपि सगुणोपासनया हिरण्यगर्भम् प्राप्तस्येति यत्परैरुक्तम् तदत्य-न्तासङ्गतम् तस्य हिरण्यगर्भेश्वररूपाधिपतिसत्वेनानन्याधिपतित्वस्य वक्तुमशक्यत्वादित्यलमतिचर्चया ॥
इति साम्परायाधिकरणम् ॥