॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥
हान्यधिकरणम् ॥ ११ ॥
छन्दोगा: *धूत्वा शरीरमि*(छान्.८-१३-२)ति पुण्यपापयोर्हानिम्, शाट्यायनिनः *सुहृदस्साधुकृत्याम्*(शप्यायिनः अथर्वणिकाः) इत्यादिना प्रियाप्रियेषु सङ्क्रमणम्, कौषीतकिनः *तत्सुकृतदुष्कृते धूनुते*(कौषी.२-४) इत्यादिना पुण्यपापयोर्हानिसङ्क्रमणे च प्रतिपादयन्ति । हान्युपाय-नोभयचिन्तनानाम् किम् वैकल्पिकत्वम् उत समुच्चय इति सम्शये पृथगाम्नानात् समुच्चयाङ्गीकारे तस्य कौषीतकिवाक्यसिद्धत्वेन शाखा-न्तराम्नानवैयर्थ्यप्रसङ्गाच्च वैकल्पिकत्वमेव । न चानेकशाखापाठस्या-ध्येतृभेदेन परिहरणीयता अविशेषपुनश्श्रवणाभावादिति पूर्वपक्षे प्राप्त उच्यते –
हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युप-
गानवत्तदुक्तम् ॥ ३-३-२६ ॥
केवलहानेः केवलोपायनस्य च श्रूयमाणस्य परस्परसमुच्चयस्या-वश्यकत्वेन उपायनशब्दस्य हानिवाक्यशेषत्वमेवोचितम् । यथा *औदुम्बर्यः कुशा* इति वाक्यस्य *वानस्पत्या*(कापिलश्रुतिः) इति वाक्यशेषत्वम् । “देवच्छन्दाम्सि पूर्वमि*(पैङ्गीश्रुतिः)ति क्रम-विशेषप्रतिपादकवाक्यस्य *देवासुराणाम् छन्दोभिरि* ति वाक्यशेषत्वम् । *समयाविषिते सूर्ये षोडशिनस्स्तोत्रमुपाकरोती*(तै.यजु. सम्.६-३-६)ति वाक्यस्य *हिरण्येनषोडशिनस्स्तोत्रमुपाकरोती*( छान्दो-गाः)ति वाक्यशेषत्वम् । *नाध्वर्युरुपगायेदि*(तै.सम्.६-३-१)ति वाक्यस्य “ऋत्विज उपगायन्ती* ति वाक्यशेषत्वम् । एवमत्रा-प्युपायनवाक्यस्य हानिवाक्यशेषत्वमभ्युपगन्तव्यम् । अतो विकल्प-स्यान्याय्यत्वात् उभयचिन्तनस्यैव सर्वविद्याङ्गत्वम् वक्तव्यमिति ॥
इति हान्यधिकरणम् ॥