॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥
अनाविष्काराधिकरणम् ॥ १३ ॥
*बाल्येन तिष्ठासेदि*(बृह.५-५-१)त्यत्र बाल्यशब्दस्य भावकर्म-साधारणत्वेऽपि वयोविशेषलक्षण बालभावस्य इच्छया सम्पादितुम-शक्यत्वेनाविधेयत्वात् कर्मैव विधेयम् । तत्र कामचारकाम वादका-मभक्षत्वादिकम् यद्बालस्य कर्म यच्च डम्भादिराहित्यलक्षणम् स्वमाहात्म्यानाविष्करणरूपम् कर्म तत्सर्वम् बाल्यशब्देन विधेयम्, अविशेषात् । न च निषिद्धस्य कामचारादेर्विधानमयुक्तमिति वाच्यम् । वामदेव्योपासनाङ्गतया प्रार्थयमानसर्वयोषिदपरिहारलक्षणनिषिद्धकर्म-विधानवद्विद्याङ्गतया निषिद्धस्यापि कामचारादेर्विधानसम्भवादिति पूर्वपक्षे प्राप्ते उच्यते –
अनाविष्कुर्वन्नन्वयात् ॥ ३-४-४९ ॥
स्वमाहात्म्यमनाविष्कुर्वन्नेव विद्वान्वर्तेत स्वमाहात्म्यानाविष्करण-लक्षणबाल्यस्यैव विद्यायामन्वयसम्भवात् । *नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमानसोवाऽपि प्रज्ञानेनैनमाप्नुयादि*(कठ.१-२-२४) ति विशिष्य विद्यायामपि प्रतिषिद्धस्य कामचारादेर्विद्याङ्गतयाऽन्वया सम्भवात्
इति अनाविष्काराधिकरणम् ॥