॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥
आग्नीन्धनाद्यधिकरणम् ॥ ४ ॥
ऊर्ध्वरेतसः यज्ञाद्यभावात् तदङ्गिका विद्या न सम्भवतीति पूर्वपक्षे प्राप्त उच्यते –
अत एव चाग्नीन्धनाद्यनपेक्षा ॥३-४-२५॥
*एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति*(बृह.६-४-२२) *यदिच्छन्तो ब्रह्मचर्यञ्चरन्ति*(कठ.१-२-१५) *ये चेमेऽरण्ये श्रद्धाम् तप इत्युपासते*(छान्.५-१०-१) इति वाक्यैः ऊर्ध्वरेतस्सु ब्रह्मविद्यायाः प्रमाण-प्रतिपन्नत्वात् तेषु ब्रह्मविद्या अग्नयाधानलक्षणाग्निपूर्वकाग्निहोत्राद्यन-पेक्षैव ।
इति अग्नीन्धनाद्यधिकरणम् ॥