॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥
तद्भूताधिकरणम् ॥ १० ॥
नैष्ठिकवैखानसपरिव्राजकानाम् स्वाश्रमेभ्यः प्रच्युतानामपि विधुरा-दिवत् जपादिभिः विद्यानुग्रहसम्भवात् अस्त्यधिकार इति पूर्वपक्षे प्राप्त उच्यते –
तद्भूतस्य तु नातद्भावो जैमिनेरपि
नियमात्तद्रूपाभावेभ्यः॥३-४-४०॥
तुशब्दः पक्षव्यावृत्त्यर्थः । तद्भूतस्य नैष्ठिकादिभूतस्य अतथाभावः प्रच्युत्य स्थितिः न सम्भवत्येव । कुतः – तद्रूपनिवृत्तिभ्यश्शास्त्रै- र्नियमात् । नियच्छन्ति हि शास्त्राणि *अत्यन्तमात्मानमाचार्यकुले-ऽवसादयन्नि*(छान्.२-२३-१)ति नैष्ठिकब्रह्मचारिणम्, *अरण्यमियात्ततो न पुनरेयादि* ति वैखानसम् *सन्यस्याग्निम् न पुनरावर्तयेदि* (याजुषि काठकोपनिषत्)ति सन्यासिनञ्च । अतस्तेषाम् प्रचुत्य स्थित्यभावात् विद्यानधिकारः । जैमिनेरप्यविगीतोऽयम् ।
न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥ ३-४-४१ ॥
आधिकारिकम् *अवकीर्णी पशुश्च तद्वदि*(जै.मी.सू.६-८-२२)त्यधि-कारलक्षणोक्तम् प्रायश्चित्तमपि नैष्ठिकस्य न सम्भवति । प्रच्युतनैष्ठिका-दीनाम् पतनस्मृतेः प्रायश्चित्तासम्भवात् । तेषाम् पतनञ्च *आरूढो नैष्ठिकम् धर्मम् यस्तु प्रच्यवते द्विजः । प्रायश्चित्तम् न पश्यामि येन शुध्येत्स आत्महे*(आग्नेय.१६-५-२३)ति प्रायश्चित्ताभाववचनेन स्मर्यते । अवकीर्णिप्रायश्चित्तम् उपकुर्वाणब्रह्मचारिविषयम् ।
उपपूर्वमपीत्येके भावमशनवत्तदुक्तम् ॥ ३-४-४२ ॥
उपपातकत्वात् मध्वशननिषेधतत्प्रायश्चित्तवत् आधिकारिकसद्भावम् मन्यन्ते । तदुक्तम् स्मृतिकारैः – *उत्तरेषाञ्चैतदविरोधी*(गौतम धर्म सू.१-३-५)ति । गुरुकुलवासिनः विहिता धर्माः प्रायश्चित्तञ्च स्वाश्रमा-विरोधीनि उत्तरेषामाश्रमिणाम् सम्भवन्तीत्यर्थः । ब्रह्मचर्यभ्रम्शे प्रायश्चित्तसम्भवात् ब्रह्मविद्याधिकारस्सम्भवत्येव ।
बहिस्तूभयथाऽपि स्मृतेराचाराच्च ॥ ३-४-४३ ॥
उभयथापि उपपातकत्वे महापातकत्वे वा ब्रह्मविद्याधिकारिभ्यो बहिष्कृता एवैते *प्रायश्चित्तम् न पश्यामि येन शुध्थेत्स आत्महे* (आग्नेय.१६-५-२३)ति स्मृतेः । शिष्टबहिष्काराच्च । यद्यपि कल्मष- निर्हरणाय कैश्चिद्वचनैः प्रायश्चित्ताधिकारप्रतिपादनेऽपि कर्माधिकारापादिनी शुद्धिस्तेषाम् न सम्भवतीत्येवाभिप्रायः । अत एव तेषाम् ब्रह्मविद्याधि-काराभावः ॥
इति तद्भूताधिकरणम् ॥