॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥
मुक्तिफलाधिकरणम् ॥१५॥
*यक्षानुरूपो बलिरि*ति न्यायेन बलवत्कर्मसाध्यानाम् मुक्तिफलक-ब्रह्मोपासनानाम् प्रबलकर्मान्तरप्रतिबन्धासम्भवात् नियतैहिकत्वमेवेति पूर्वपक्षः । सिद्धान्तस्तु
एवम् मुक्तिफलानियमस्तदवस्थावधृते–
स्तदवस्थावधृतेः ॥ ३-४-५१ ॥
मुक्तिफलकविद्यानामपि ऐहिकत्वनियमो नास्ति, अप्रस्तुतप्रतिबन्ध-त्वरूपावस्थाया अविशेषेण तत्राप्यवधृतत्वात् । तत्रापि प्रबलानाम् ब्रह्म-विदपचारादिप्रतिबन्धकानाम् सम्भवात् । द्विरुक्तिरध्यायपरिसमाप्त्यर्था ॥
इति मुक्तिफलाधिकरणम् ॥
*****
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयःपादः ॥ तृतीयोऽध्यायस्समाप्तः ॥
*****