॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥
विधुराधिकरणम् ॥ ९ ॥
अनाश्रमिणाम् विधुरादीनामाश्रमधर्माभावात्तदङ्गिका विद्या न सम्भ-वतीति पूर्वपक्षे प्राप्त उच्यते –
अन्तरा चापि तु तद्दृष्टेः ॥ ३-४-३६ ॥
तुशब्दः पक्षव्यावर्तकः । चशब्दोऽवधारणे । आश्रमानन्तरावर्तमा-नानाम् अनाश्रमिणामिति यावत् । तेषामपि विद्यायामधिकारोऽस्त्येव । तादृशानामपि भीष्मरैक्वसम्वर्तादीनाम् ब्रह्मविद्यादर्शनात्, *यज्ञेन दानेन तपसाऽनाशकेने*(बृह.६-४-२२)ति आश्रमानियतदानतप आदिभिरपि विद्यानुग्रहस्य श्रुतत्वात् ॥
अपि स्मर्यते ॥ ३-४-३७ ॥
*जप्येनापि च सम्सिध्येत् ब्राह्मणो नात्र सम्शयः*(मनु स्मृतिः २-८-७) इति हि स्मर्यते । सम्सिध्येत् – जपाद्यनुगृहीतया विद्यया सिद्धो भवतीत्यर्थः ।
विशेषानुग्रहश्च ॥ ३-४-३८ ॥
*तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानमन्विष्यादित्यमभिजयन्ती* (प्रश्न.१-१०)ति आश्रमानियततप आदि धर्मविशेषैरनुग्रहः श्रूयते ।
अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥ ३-४-३९ ॥
तुशब्दोऽवधारणे । अतः अनाश्रमित्वादितरत् आश्रमित्वमेव ज्यायः । अनाश्रमित्वमापद्विषयम् । शक्तस्य त्वाश्रमित्वमेवोपादेयम् । भूयो-धर्मकाल्पधर्मकयोरतुल्यकारित्वात् । लिङ्गाच्च – लिङ्गम् हि स्मृतिः । स्यर्यते हि – *अनाश्रमी न तिष्ठेत्तु दिनमेकमपि द्विज*(दक्षस्मृतिः १-१०) इति । असति वैराग्ये दारालाभ आपत् । सति वैराग्ये सन्यासस्वीकार-सम्भवात् । न चाविरक्तस्य ब्रह्मविद्याधिकारः कथमुच्यत इति शङ्क्यम् । अग्निहोत्राद्यनुतिष्ठासया दारपरिग्रहरागसम्भवेऽपि दारादिषु भोग्यताति-शयबुद्धिकृतरागाभावेन ब्रह्मविद्याधिकारसम्भवात्, देहान्तरोपभोग्यब्रह्म-व्यतिरिक्तफलाशाभावेन मुमुक्षौपयिकवैराग्यसम्भवाच्च । एवमेव व्यासार्यैरुक्तत्वाच्च न दोषः ॥
इति विधुराधिकरणम् ॥