॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥
विहितत्वाधिकरणम् ॥८॥
विहितत्वाच्चाश्रमकर्मापि ॥ ३-४-३२ ॥
*यावज्जीवमग्निहोत्रम् जुहोती*(शाबरे आप.श्रौत.३-१४-८)ति नित्यतया विहितानामाग्निहोत्रादीनामनित्यकामनाविषयब्रह्म-विद्यार्थत्वे नित्यानित्यसम्योगविरोधात् आश्रमकर्मापेक्षया विद्यार्थानि कर्माणि भिन्नानीति पूर्वपक्षे प्राप्ते यथैकस्यैव खदिरत्वस्य *खादिरो यूपो भवति*(शा.बा.३-६-२-१२) *खादिरम् वीर्यकामस्य यूपम् कुर्यादि* ति वचनद्वयेन क्रतौ फले च पृथग्विनियोगदर्शनात् क्रत्वर्थतया नित्य-स्यापि खदिरत्वस्यानित्यकामनाविषयवीर्यार्थत्वाविरोधः तद्वत् *यावज्जीवमग्निहोत्रम् जुहोती*( शाबरे आप.श्रौत.३-१४-८) ति नित्यतयाऽग्निहोत्रादीनाम् विहितत्वादाश्रमकर्मत्वमप्यस्ति ।
सहकारित्वेन च ॥ ३-४-३३ ॥
विविदिषावाक्येन विद्यासहकारितया विहितत्वाद्विद्यार्थत्वमप्यस्तीति स्थापितम् ।
नन्विह यथा कुण्डपायिनामयने *मासमग्निहोत्रम् जुहोती* ति श्रुतम् मासाग्निहोत्रम् नैयमिकाग्नि होत्राद्भिद्यते तथा विविदिषा-वाक्येन विद्यार्थतया विधीयमानम् नित्यादग्निहोत्रादेरन्यदेवास्तु तत्राह –
सर्वथाऽपि त एवोभयलिङ्गात् ॥ ३-४-३४ ॥
विद्यार्थत्वे आश्रमार्थत्वेऽपि त एव यज्ञादयः प्रतिपत्तव्याः । उभयत्र यज्ञादिशब्दैः प्रत्यभिज्ञाप्यमानत्वरूपलिङ्गात्, *यज्ञेने*(बृह.६-४-२२) त्यादिशब्दैः प्रसिद्धयज्ञादिविलक्षणयज्ञादिविधाने तस्य द्रव्यदेवताद्यभावे अरूपत्वप्रसङ्गात्, तत्सद्भावे च देवतोद्देशेन द्रव्यत्यागत्वरूपयज्ञशब्द-प्रवृत्तिनिमित्तेन यज्ञशब्दमुख्यार्थतया मासाग्निहोत्रवद्गौण्यावृत्त्या कर्मान्तरम् विधीयत इति वक्तुमशक्यत्वात्, न तन्न्याय इह प्रवर्तते । अतः *यज्ञोऽध्ययनम् दानमिति प्रथमः*(छान्.२-२३-२) *यज्ञानाम् जपयज्ञोऽस्मि*(गी.१०-२५) *भोक्तारम् यज्ञतपसामि*(गी.५-२९)त्यादि-ष्विव प्रसिद्धयज्ञपरत्वमेव युक्तम् ।
अनभिभवम् च दर्शयति ॥ ३-४-३५ ॥
*धर्मेण पापमपनुदती*(तै.महाना.५० अनु)त्यादिश्रुतिश्च तानेव यज्ञादिधर्मान्निर्दिश्य तैर्विद्याया अनभिभवम् पापकर्मभिरुत्पत्तिप्रति-बन्धाभावम् दर्शयति । ततश्च प्रसिद्धस्यैवाग्निहोत्रादेर्धर्मस्य विद्योत्पत्ति प्रतिबन्धकपापापनोदहेतुत्वात्तस्यैव विद्याङ्गत्वमिति स्थितम् ॥
इति विहितत्वाधिकरणम् ॥