॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥
शमदमाद्यधिकरणम् ॥६॥
गृहस्थस्य बाह्याभ्यन्तरकरणव्यापाररूपकर्मानुष्ठानस्यावश्यक्त्वात् शमादीनाञ्च तद्विपरीतत्वात् नानुष्ठेयत्वमिति प्राप्त उच्यते –
शमदमाद्युपेतस्स्यात्तथाऽपि तु तद्विधेस्तदङ्गतया
तेषामवश्यानुष्ठेयत्वात् ॥ ३-४-२७ ॥
तथाऽपि गृहस्थस्य कर्मानुष्ठानावश्यकत्वेऽपि गृहस्थश्शमदमाद्युपेत-स्स्यात् । *तस्मादेवम् वित् शान्तो दान्त उपरतस्तितिक्षुस्समाहितो भूत्वाऽऽत्मन्येवात्मानम् पश्येदि*(बृह.६-४-२३)ति विद्याङ्गतया विधानात् अशान्तचित्तस्य चित्तविक्षेपेण विद्यानिष्पत्त्यसम्भवेन दृष्टार्थतया अनुष्ठेय-त्वाच्च । न च कर्मणाम् शमादीनाम् च विरोधः भिन्नविषयत्वात् । विहितेषु व्यापारः इतरेषु तदुपरमरूपश्शम इति । न च करणव्यापार-रूपकर्मसु वर्तमानस्य वासनानुवृत्त्या शमादिकम् न सम्भवतीति वाच्यम् । परमपुरुषाराधनरूपकर्मणाम् वासनोच्छेद एव हेतुत्वादिति स्थितम् ॥
इति शमदमाद्यधिकरणम् ॥