[highlight_content]

सर्वान्नानुमत्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥

सर्वान्नानुमत्यधिकरणम् ॥ ७ ॥

    न ह वा एवम् विदि किञ्चनानन्नम् भवती*(छान्.५-२-१)ति छान्दोग्ये *न ह वास्यानन्नम् जग्धम् भवती*(बृह.८-१-१४)ति वाज-सनेयके च श्रवणाद्वामदेव्योपासनानिष्ठस्य प्रार्थयमानसर्वयोषिदपरिहारा-नुमतिवत् सर्वान्नानुमतिः प्राणविद्यानिष्ठस्य सर्वदा क्रियत इति पूर्वपक्षे प्राप्त उच्यते –

सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ ३-४-२८ ॥

प्राणात्यय एव प्राणविदस्सर्वान्नानुज्ञानम् न सर्वदा । ब्रह्मविदो-ऽप्युषस्तेः प्राणात्यय एव इभ्योच्छिष्टाशनस्य दर्शनेन प्राणविदस्सर्वा-न्नानुमतेरापद्विषयत्वस्य किम् पुनर्न्यायसिद्धत्वात् ।

अबाधाच्च ॥ ३-४-२९ ॥

*आहारशुद्धौ सत्त्वशुद्धिरि*(छान्.७-२६-२)ति शास्त्राबाधार्थमप्येवमेव न्याय्यम् इतरथा तस्य बाधस्स्यात् ।

 

अपि स्मर्यते ॥ ३-४-३० ॥

 

*प्राणसम्शयमापन्नो योऽन्नमत्ति यतस्ततः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसे* ति स्मरणाच्च सर्वान्नीनत्वमापद्विषयम् ।

शब्दश्चातोऽकामकारे ॥ ३-४-३१ ॥

*तस्माद्ब्राह्मणस्सुराम् न पिबति पाप्मना नोत्सृजा*  इति सम्हितायाम् कामकारप्रतिषेधकशब्ददर्शनात् । पाप्मना सम्स्पृष्टो न भवानीति मत्वा ब्राह्मणस्सुराम् न पिबतीति हि तस्याश्श्रुतेरर्थः ।
ननु ब्रह्मविद उषस्तेः प्राणात्यये सर्वान्नीनत्वदर्शनात् प्राणविद-स्सर्वान्नीनत्वस्यापद्विषयत्वम् कैमुत्यन्यायेन सिध्यतीत्यनुपपन्नम् । वामदेव्योपासननिष्ठस्य सर्वयोषिदपरिहारवत् प्राणविद्यानिष्ठस्य वचन-बलात् सर्वान्नीनत्वमिति वदन्तम् प्रत्येतस्यानुत्तरत्वादिति चेन्न । वामदेव्योपासनस्य *न काञ्चन परिहरेत्तद्व्रतमि* ति सर्वयोषि-दपरिहारेऽपि स्पष्टविधिश्रवणात् । प्रकृते च *न ह वा एवम् विदि किम् चनानन्नम् भवती*(छान्.५-२-१)त्यत्र सर्वान्नभक्षणविधेः कल्प्यत्वात् प्रत्यक्षनिषेधविरोधे न विधिकल्पनानुदयेनार्थ वादत्वस्यैव युक्तत्वात् सर्वप्राण्यन्ने *यत्किञ्चिदिदमाश्वभ्य आशकुनिभ्य*(छान्.५-२-१) इति विहितस्य प्राणान्नत्वचिन्तनस्य स्तुतिमात्रम् क्रियते *न ह वा एवम् विदि किम् चनानन्नम् भवती*(छान्.५-२-१)ति । न चैवम् सति निषेधशास्त्रविरोधात् *एवम् विदि पापम् कर्म न श्लिष्यत*(छान्.४-१४-३) इत्यादेरपि स्तुतिमात्रत्वप्रसङ्ग इति वाच्यम् । पाप्मनामश्लेषाभावे  अनिर्मोक्षप्रसङ्गेन सकलपापाश्लेषस्य मोक्षविधिशास्त्रापेक्षितत्वेन फल-विधित्वस्य वक्तव्यत्वात् । प्राणविद्यायाश्च ज्येष्ठत्व श्रेष्ठत्वादिफलकत्वेन फलाकाङ्क्षाया अभावादिति ॥

इति सर्वान्नानुमत्यधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.