॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥
स्तुतिमात्राधिकरणम् ॥२॥
स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ ३-४-२१ ॥
*स एष रसानाम् रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथ* (छान्.१-१-३)इति वाक्यानि क्रत्ववयवोद्गीथादिस्तुतिमात्रपराणि वा उद्गीथादिषु रसतमत्वादिदृष्टिविधायकानि वेति चिन्तायाम् क्रत्वङ्गभूतोद्गीथादि-ग्रहणपूर्वकम् रसतमत्वकथनात् *इयमेव जुहूः स्वर्गो लोक आहवनीय* इत्यस्य जुह्वादीनाम् पृथिव्यादित्वप्रतिपादकस्य स्तुतिपरत्ववत् *स एष रसानाम् रसतम*(छान्.१-१-३) इति वाक्यस्यापि स्तुतिमात्र-परत्वमिति चेन्न अपूर्वत्वात् – अप्राप्तत्वात् । उद्गीथादीनाम् रसतमत्वस्य प्रमाणान्तराप्राप्तत्वेन विधेयत्वेन तत्प्राशस्त्यबुद्धिजन-नार्थम् अनुवादासम्भवात् उद्गीथादिषु क्रतुवीर्यवत्तरत्वरूपफलविशेष-सिध्यर्थम् रसतमत्वादिदृष्टिविधानस्यैव उचितत्वात् । *इयमेव जुहूरि* त्यत्र कर्मविधिप्रकरणसान्निध्यात् *सम्भवत्येकवाक्यत्व* इति न्यायेन तदेकवाक्यत्वस्यैव उचितत्वेन स्तुतिरूपत्वसम्भवेऽपि उद्गीथ-विधेः भिन्नप्रकरणस्थत्वेन एकवाक्यत्वासम्भवात् रसतमादिवाक्यस्य दृष्टिविधिपरत्वमेव उचितमिति ।
भावशब्दाच्च ॥ ३-४-२२ ॥
*उपासीते*(छान्.१-१-१)त्यादि उपासनविधायकविधिप्रत्यययुक्त-क्रियाशब्दसत्वाच्च उपासनविधि परत्वमेव न्याय्यम् ॥
इति स्तुतिमात्राधिकरणम् ॥