॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥
अनारब्धकार्याधिकरणम् ॥ ९ ॥
*एवम् हास्य सर्वे पाप्मानः प्रदूयन्त*(छान्.५-२४-३)ति सर्वकर्म-प्रदाहश्रवणात् ब्रह्मविद्योत्पत्त्यनन्तरमेव सर्वकर्मणाम् नाशः । देहस्थि-तिस्तु चक्रभ्रमणादिवत्सम्स्कारवशादप्युपपद्यत इति प्राप्ते उच्यते –
अनारब्धकार्ये एव तु पूर्वे तदवधेः॥४-१-१५॥
विद्योत्पत्तेः प्राचीने अनारब्धकार्ये एव सुकृतदुष्कृते नश्यतः नत्वा-रब्धकार्ये । *तस्य तावदेव चिरम् यावन्न विमोक्ष्य*(छान्.६-१४-२) इति शरीरपातविलम्बावधिश्रवणाद्यावच्छरीरधारणम् प्रारब्धकर्मानुवृत्तेरवश्य-म्भावात्, कर्मव्यतिरिक्तस्य देहधारकसम्स्कारस्य सद्भावे प्रमाणाभावा-दित्युक्तम् ॥
इति अनारब्धकार्याधिकरणम् ॥