॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥
आत्मत्वोपासनाधिकरणम् ॥ २ ॥
*पृथगात्मनम् प्रेरितारञ्च मत्वा जुष्टस्ततस्तेनामृतत्वमेती*(श्वेत.१-६)ति जीवेश्वरपृथक्त्वज्ञानस्य अमृतत्वसाधनत्वश्रवणात् स्वात्मानम् प्रत्यपृथक्सिद्धविशेष्यत्वलक्षणमात्मत्वम् ब्रह्मणो नास्त्येव । अत एव *आत्मेत्येवोपासीते*(बृह.३-४-७)तीतिकरणेन दृष्टिविधित्वम् सूच्यते । तादृशी च दृष्टिर्न मोक्षार्थोपासन विषया । ततश्च मोक्षोपासने तात्त्विक-विषयत्वावश्यम्भावेनातस्मिन्स्तदारोपरूपदृष्टिविधेरयुक्तत्वात् पृथक्त्वे-नैवानुसन्धानम् कार्यम् नत्वपृथक्सिद्धविशेष्यत्वरूपात्मत्वेनेति पूर्वपक्षे पठति –
आत्मेति तूपगच्छन्ति ग्राहयन्ति चेति ॥ ४-१-३ ॥
*त्वम् वा अहमस्मि भगवो देवते अहम् वै त्वमसि भगवो देवते* (जाबाल, वाराह २-३-४) इति पूर्वे उपासितार: आत्मत्वेनोपगच्छन्ति उपासत इत्यर्थ: । *य आत्मनि तिष्ठन्नि*(बृह.५-२-२१)त्यादीनि च शास्त्राणि प्रत्यगात्मापेक्षया आत्मताम् ग्राह्यन्ति । न च पृथक्त्वानु-सन्धानस्य विरोधश्शङ्क्यः । किञ्चिज्ज्ञत्वसर्वज्ञत्वादिलक्षण भेदका-कारस्य पारमार्थिकत्वात् भेदरूपम् पृथक्त्वमस्त्येव । नियमेनाधारत्व-लक्षणमपृथक्सिद्ध विशेष्यत्वरूपमात्मत्वमप्यस्त्येव । नहीदृशमात्मत्वम् भेदविरोधि । अतः *आत्मेत्येवोपासीते*(बृह.३-४-७)ति विधिवशादात्म-त्वेनैवोपासनम् कर्तव्यमिति स्थितम् ॥
इति आत्मत्वोपासनाधिकरणम् ॥