[highlight_content]

आप्रयाणाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तुर्थस्याध्यायस्य प्रथमःपादः ॥

आप्रयाणाधिकरणम् ॥ ६ ॥

    इदमपवर्गसाधनमुपासनम् एकस्मिन्नेवाहनि कार्यम् शास्त्रार्थस्य तावतैव कृतत्वादिति पूर्वपक्षे प्राप्ते उ्यते –

आप्रयाणात्तत्रापि हि दृष्टम् ॥४-१-१२॥

उपासनम् आमरणमनुवर्तनीयम् *स खल्वेवम् वर्तयन् यावदायुषम् ब्रह्मलोकमभिसम्पद्यते न पुनरावर्तते न पुनरावर्तत*(छान्.८-१५-१) इति उपासनस्य यावदायुषमनुवर्तनीयत्वविधानात् ।

इति आप्रयाणाधिकरणम् ॥

error: Content is protected !!