॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थोऽध्यायः ॥
चतुर्थस्याध्यायस्य प्रथमःपादः ॥
आवृत्त्यधिकरणम् ॥ १ ॥
*ब्रह्मविदाप्नोति परमि*(तै.अ.१-२)त्यादिषु मोक्षसाधनम् वेदनम् सकृत्कृतमेव शास्त्रार्थः । *स यो ह वै तत्परमम् ब्रह्म वेद ब्रह्मैव भवती*(मुण्ड.३-२-९)ति ब्रह्मवेदनस्य परप्राप्त्युपायत्वश्रुतेः सकृत्कृतेऽपि वेदने शास्त्रार्थनिर्वृत्तेः असकृदावृत्तौ ज्योतिष्टोमादेरिव फल-भूम्नः कल्पनीयतया अपुनरावृत्तिलक्षण मोक्षरूपफलभेदस्याभावाच्चेति पूर्वःपक्षः । सिद्धान्तस्तु –
आवृत्तिरसकृदुपदेशात् ॥ ४-१-१ ॥
असकृदावृत्तम् वेदनमित्यर्थः । *विद्यादुपासीते*ति विद्युपास्योरुपक्रमो-पसम्हारयोर्व्यतिकरेण उपदेशात् *ब्रह्मविदाप्नोति परम्*(तै.अ.१-२ *निदिध्यासितव्य*(बृह.६-५-६) इति वेदनध्यानयोश्च व्यतिकरेण उपदेशात् वेदन ध्यानोपासनादिशब्दानामभिन्नार्थत्वात् स्मृतिसन्तानरूपध्यानात्मकवेदनस्य आवृत्तिमन्तरेण ध्यानरूपत्वानुपपत्तेः वेदान्तविहितस्य आप्रयाणादनुवर्तनीयस्य एकोपायत्वेन फलभेदकल्पना-नुपपत्तेश्च असकृदावृत्तम् वेदनमेव शास्त्रार्थः ।
लिङ्गाच्च ॥४-१-२॥
लिङ्गम् – स्मृतिः । स्मर्यते – *माम् ध्यायन्त उपासते*(गी.१२-६) *अव्यक्तम् पर्युपासते*(गी.१२-३) *तद्रूपप्रत्यये चैकासन्ततिश्चान्यनिस्पृहा तद्ध्यानमि*(वि.पु.६-७-११)त्यादिना ॥
इति आवृत्त्यधिकरणम् ॥