॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥
इतरक्षपणाधिकरणम् ॥ ११ ॥
*तस्य तावदेवचिरम् यावन्नविमोक्ष्येऽथ सम्पत्स्य*(छान्.६-२४-२) इति विद्यायोनिशरीरपातमात्रस्यैवान्तरायत्व श्रवणात् प्रारब्धयोः पुण्य-पापकर्मणोस्सत्वेऽपि विद्यायोनिशरीरावसान एव मोक्ष इति प्राप्त उच्यते –
भोगेन त्वितरे क्षपयित्वाऽथ सम्पद्यते ॥ ४-१-१९ ॥
तुशब्दः पक्षव्यावृत्त्यर्थः । आरब्धकार्ये पुण्यपापे फलभोगेन क्षपयित्वा ब्रह्म सम्पद्यते । ते च प्रारब्धपुण्यपापे विद्यायोनिशरीरमात्रोपभोग्यफले चेत् विद्यायोनिशरीरावसाने अनेकशरीरभोग्यफले चेत् तदवसाने सम्पद्यते । भोगेनैव क्षपयितव्यत्वादारब्धपुण्यपापकर्मणोः । *तस्य तावदेवचिरम् यावन्न विमोक्ष्य*(छान्.६-१४-२) इत्यत्र न तच्छरीरविमोक्ष उच्यते । अपि तु देहारम्भक कर्मविमोक्ष एवेति निष्कर्षः ॥
इति इतरक्षपणाधिकरणम् ॥ ११ ॥
************
इति श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्ययस्य प्रथमः पादः