॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥
इतराधिकरणम् ॥८॥
पुण्यकर्मफलस्य सुखरूपत्वेन विदुषोऽनिष्टत्वाभावात् नाश्लेषविनाशा-विति पूर्वपक्षे प्राप्त उच्यते –
इतरस्याप्येवमसम्श्लेषः पाते तु ॥ ४-१-१४ ॥
विदुषः पुण्यस्यापि मोक्षविरोधित्वेन अनिष्टफलत्वसाम्यादेव अश्लेष-विनाशौ । विद्यानुगुणस्य वृष्ट्यन्नारोग्यफलस्य शरीरपाते सति अनिष्ट-त्वादश्लेषः ।
इति इतराधिकरणम् ॥