॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥
तदधिगमाधिकरणम् ॥ ७ ॥
*नाभुक्तम् क्षीयते कर्म कल्पकोटिशतैरपी*(ब्रह्मवैवर्त प्रकृतिखण्ड.२६-अ.७० श्लो)ति भोगादेव कर्मक्षयश्रवणात् अश्लेषविनाशश्रुतिः कथञ्चित् विद्यास्तुत्यर्थतया नेयेति प्राप्त उच्यते –
तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ
तद्व्यपदेशात् ॥ ४-१-१३ ॥
उपासने प्रारब्धे तत्समार्थ्यादेव पूर्वाघविनाशः उत्तराघाश्लेषश्च भवति तद्व्यपदेशात् । *एवम् हास्य सर्वे पाप्मानः प्रदूयन्ते*(छान्.५-२४-३)। *एवमेवम् विदि पापम् कर्म न श्लिष्यत*(छान्.४-१४-३) इति श्रुतेः । न च *नाभुक्तम् क्षीयते कर्मे*(ब्रह्मवैवर्त प्रकृतिखण्ड.२६-अ.७० श्लो)ति वचनविरोधः । तस्य प्रारब्धफलकर्मणाम् फलजननसामर्थ्यदार्ढ्य-विषयत्वात् अश्लेषविनाशश्रुत्योश्च तद्भिन्नकर्मणाम् तत्सामर्थ्यनिवारण-शक्तिप्रतिपादनपरत्वात् । अन्यथा कर्ममात्रस्य भोगैकनाश्यत्वाभ्युपगमे भोगम् विना कर्म न नश्यतीति भोगार्थम् शरीरमवर्जनीयम् तस्मिन्नपि शरीरे पापार्जनम् भवतीति अनिर्मोक्षप्रसङ्ग इति मोक्षशास्त्रैरैव पापाश्लेष-विनाशयोरपेक्षितत्वादिति ॥
इति तदधिगमाधिकरणम् ॥