॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥
प्रतीकाधिकरणम् ॥ ३ ॥
*मनो ब्रह्मेत्युपासीते*(छान्.३-१८-१)ति प्रतीकोपासनस्यापि ब्रह्मोपासन-त्वाविशेषात् ब्रह्मणश्च उपासितुरात्मत्वेन आत्मत्वेनैवोपासनम् कार्यमिति पूर्वपक्षे प्राप्त उच्यते ।
न प्रतीके न हि सः ॥४-१-४॥
मनोविशेष्यकब्रह्मविशेषणकोपासने ब्रह्मणः दृष्टिविशेषणत्वेन विशेष्य-भूतमनसः उपासकम् प्रत्यात्मत्वासम्भवेन अब्रह्माणि मनसि ब्रह्मदृष्ट्या-नुसन्धानमेवेदम् ।
ननु अत्रापि ब्रह्मण एवोपास्यत्वमस्तु अचेतनस्य अल्पशक्तेर्मन आदेरुपास्यत्वासम्भवात् मनसः दृष्टिविशेषणत्वमङ्गीकृत्य ब्रह्मण एवोपास्यत्वस्य न्याय्यत्वादित्यत्राह –
ब्रह्मदृष्टिरुत्कर्षात् ॥ ४-१-५ ॥
मन आदिषु ब्रह्मदृष्टिरेव न्याय्या । उत्कृष्टे राज्ञि भृत्यदृष्टेरिव उत्कृष्टे ब्रह्मणि मन आदि दृष्टेरन्याय्यत्वात् । न च अचेतनानाम् कथमुपास्य-त्वमिति वाच्यम् । मन आदिशब्दानामभिमानि देवतावाचकत्वेन उपास्यत्वसम्भवात् ॥
इति प्रतीकाधिकरणम् ॥