॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः
अध्यक्षाधिकरणम् ॥३॥
*प्राणस्तेजसी*(छान्.६-८-६)ति श्रुतेः प्राणस्तेजसि सम्पद्यत इति प्राप्ते उच्यते –
सोऽध्यक्षे तदुपगमादिभ्यः॥४-२-४॥
सः इन्द्रियसहितः प्राणः अध्यक्षे जीवे सम्पद्यते । *एवमेवेममात्मा-नमन्तकाले सर्वे प्राणा अभिसमायन्ती*(बृह.६-३-३८)ति प्राणानाम् जीवोपगमस्य तेन सहोत्क्रान्तेश्च श्रवणाज्जीव एव सम्पद्यते गंगया सम्युज्य सागरम् गच्छन्त्याम् यमुनायाम् यमुना सागरम् गच्छतीति प्रयोगवज्जीवद्वारा प्राणस्य तेजस्सम्पत्तावपि *प्राणस्तेजसी*(छान्.६-८-६) त्युक्तिरुपपद्यते । न च प्राणस्य तेजोद्वारेणैव जीवोपगमोऽस्त्विति वाच्यम् । निरध्यक्षस्य प्राणस्य तेजसि स्थितेरसम्भवादिति स्थितम् ॥
इति अध्यक्षाधिकरणम् ॥