॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः
अविभागाधिकरणम् ॥७॥
तथा सेयम् परमात्मनि जीवस्य सम्पत्तिः प्राकृतलयवत्कारणापत्ति-रूपैव । सर्वात्मनः सर्वोपादानत्वात् । न तु वागादेर्मन आदिष्विवा-विभागमात्रमिति पूर्वपक्षे प्राप्ते उच्यते –
अविभागो वचनात् ॥ ४-२-१५ ॥
अत्रापि पृथग्भावानर्हसम्सर्गविशेषलक्षणाविभाग एव सम्पत्तिशब्दार्थः । *वाङ्ग्मनसि सम्पद्यत*(छान्.६-८-६) इत्यत्र सतस्सम्पद्यत इति शब्दस्यैवेहाप्यनुषज्यमानतया अभिधानवैरूप्याश्रय-णस्यान्याय्यत्वादिति स्थितम् ॥
इति अविभागाधिकरणम् ॥