॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः
आसृत्युपक्रमाधिकरणम् ॥ ५ ॥
*अत्र ब्रह्म समश्रुत*(कठ.२-६-१४) इत्यत्रैव विदुषो ब्रह्मभावश्रवणात् नोत्क्रान्तिरिति प्राप्ते उच्यते –
समाना चासृत्युपक्रमादमृतत्वञ्चानुपोष्य ॥४-२-७॥
आसृत्युपक्रमात् आगत्युपक्रमात् । नाडीप्रवेशात् प्रागुत्क्रान्तिर्विद्वद-विदुषोस्समाना । *शतञ्चैका च हृदयस्य नाड्यस्तासाम् मूर्धानमभि-निस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेती*(कठ.२-६-१६ & बृह.४-४-७)ति विदुषोऽपि नाडीविशेषेणोत्क्रमणश्रवणादुत्क्रान्तिरवर्जनीयैव । *अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्रुत*(कठ.२-६-१४) इति विदुषोऽत्रैव श्रूयमाणम् यदमृतत्वम् तदनुपोष्य शरीरेन्द्रियसम्बन्धमदग्ध्वैव उत्तरपूर्वाघा श्लेषविनाशरूपममृतत्वमुच्यते । *अत्र ब्रह्म समश्रुत*(कठ.२-६-१४) इति चोपासनकालब्रह्मानुभवाभिप्रायम् ।
तदापीतेस्सम्सारव्यपदेशात् ॥ ४-२-८ ॥
अवश्यम् च तत् अमृतत्वमदग्धवदेहसम्बन्धस्यैव वक्तव्यम् । कुतः आपीतेस्सम्सारव्यपदेशात् । अपीतिः – अप्ययः । आब्रह्माप्ययम् सम्सारो हि व्यपदिश्यते । *तस्य तावदेव चिरम् यावन्न विमोक्ष्ये अथ सम्पत्स्य*(छान्.६-१४-२) इति, *अश्व इव रोमाणि विधूय पापम् चन्द्र इव राहोर्मुखात् प्रमुच्य धूत्वा शरीरमकृतम् कृतात्मा ब्रह्मलोकमभि-सम्भवानी*(छान्.८-१३-१)ति व्यपदेशात् ॥
सूक्ष्मम् प्रमाणतश्च तथोपलब्धेः ॥ ४-२-९ ॥
देवयानेन पथा गच्छतोऽपि विदुषः *तम् प्रतिब्रूयात्*(कौषी.१-२) *सत्यम् प्रतिब्रूयात्*(कौषी.१-२) चन्द्रमस्सम्वादस्य प्रमाणप्रतिपन्न-त्वाच्च सूक्ष्मम् शरीरमामोक्षमनुवर्तत इत्यभ्युपगन्तव्यम् । न ह्यशरीरस्य चन्द्रमसा सम्वादस्सम्भवति ।
नोपमर्देनातः ॥ ४-२-१० ॥
अतः *अथ मर्त्योऽमृतो भवती*(कठ.२-६-१४)ति श्रूयमाणममृतत्वम् शरीरेन्द्रियसम्बन्धानुपमर्देनैवोत्तर पूर्वाघाश्लेषविनाशरूपमङ्गीकर्तव्यम् ॥
अस्यैव चोपपत्तेरूष्मा ॥ ४-२-११ ॥
अस्य सूक्ष्मशररीस्य क्वचिदुपसम्हृतत्वादेव विदुषोऽपि म्रियमाणस्य क्वाचित्क ऊष्मोपलभ्यते ।
प्रतिषेधादिति चेन्न शारीरात्स्पष्टो ह्येकेषाम् ॥४-२-१२॥
ननु *योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ती*(बृह.६-४-६)ति विदुषो देहादुत्क्रान्तिः प्रतिषिद्धा । न चेदम् शारीरापादानकोत्क्रमणनिषेधपरमिति वाच्यम् । *यत्रायम् पुरुषो म्रियते उदस्मात्प्राणः क्रामन्त्याहो ने*(बृह.५-२-११)त्यार्तभागप्रश्ने *नेति होवाच याज्ञवल्क्यः स उच्छ्रयत्याध्मा यत्याध्मातो मृतश्शेते*(बृह.५-२-११) इति उच्छूनत्वादीनाम् शरीरधर्माणाम् प्रतिपादनेन शरीरापादानकोत्क्रमण प्रतिषेधस्यैव युक्तत्वात् । न हि शारीरस्योच्छूनत्वमाध्मातत्वम् शयितृत्वम् वा युज्यते । अतश्शरीरापादनकोत्क्रमणनिषेधान्नोत्कान्ति- र्विदुष इति चेन्न । शारीरादेवोत्क्रमणम् प्रतिषिध्यते एकेषाम् माध्य-न्दिनानामाम्नाये विस्पष्टम् *योऽकामो निष्काम आप्तकाम आत्मकामो न तस्मात्प्राणा उत्कामन्ती*(बृह.६-४-६)ति शारीरापादानकोत्क्रमण-प्रतिषेधात् । काण्वशाखायान्तु *न तस्य प्राणा*(बृह.६-४-६) इति षष्ठी *नटस्य श्रृणोती*तिवदपादानत्वलक्षणसम्बन्धपरा । *उदस्मात्प्राणाः क्रामन्त्याहो ने*(बृह.५-२-१०)त्यार्तेभागप्रश्ने तु विदुषोऽप्रस्तुतत्वेनाविद्व-द्विषयत्वावश्यम्भावेनाविदुषश्च शरीरादुत्क्रान्तेः प्रतिषेद्धुमशक्यतया तत्रापि शारीरापादानकोत्क्रमणप्रतिषेधपरत्वस्यैव युक्तत्वात् । न च तत्र वाक्यशेषश्रुतानामुच्छूनत्वादीनामात्मन्यनुपपत्तिः, शरीरापादानकोत्क्रान्ति-प्रतिषेधवादिनापि *आत्मकामो न तस्मात्प्राणा उत्क्रामन्ती*(बृह.६-४-६) ति माध्यन्दिनशाखावाक्ये अभेदोपचारस्यावश्या श्रयणीयत्वात् । न च प्राणानाम् शारीरादुत्क्रान्तेरप्रसक्ततया प्रतिषेधो न युक्त इति वाच्यम् । वृक्षादुड्डीयमानविहङ्गमसङ्घवद्यथायथम् गमनसम्भवात् *तस्य तावदेव चिरम् यावन्न विमोक्ष्येऽथ सम्पत्स्य’*(छान्.६-१४-२) इति देहवियोगा- नन्तरब्रह्मसम्पत्तिवचनेन तदानीमेव शारीरात् प्राणोत्क्रमणस्य प्रसक्त-त्वाच्च । तथा च सूक्ष्मशरीरसाध्यार्चिरादिगत्यभावे ब्रह्मसम्पत्तेः तत्सा-ध्याया अनुपपत्तिरिति शङ्कापरिहाराय *न तस्य प्राणा उत्क्रामन्ती* (बृह.६-४-६)त्युच्यत इति निरवद्यम् । अतो विद्वदविदुषोरुत्क्रान्ति-स्समानेति ।
स्मर्यते च ॥ ४-२-१३ ॥
*ऊर्ध्वमेकस्स्थिस्तेषाम् यो भित्वा सूर्यमण्डलम् । ब्रह्मलोकमतिक्रम्य तेन याति पराम् गतिमि*(याज्ञवल्क्य अध्यात्म १६७ श्लोकः)ति मूर्धन्य-नाड्या विदुषोऽप्युत्क्रान्तिः स्मर्यते ॥
इति आसृत्युपक्रमाधिकरणम् ॥