॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः
तदोकोऽधिकरणम् ॥ ८ ॥
कठवल्लयाम् श्रूयते – *शतञ्चैका च हृदयस्य नाड्यस्तासाम् मूर्धानमभिनिस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ती*(कठ.२-६-२६)ति । अत्र मूर्धन्यनाड्यैव विदुषो गमनम् अन्याभिरविदुषो गमनमिति नियमो नोपपद्यते । नाडीनाम् भूयस्त्वादतिसूक्ष्मत्वाच्च दुर्विवेचतया पुरुषेणोपादा-तुमशक्यत्वात् *तयोर्ध्वमायन्नमृतत्वमेती*(कठ.२-६-२६)ति श्रुतिः यादृच्छिकीमुत्क्रान्तिमनुवदतीति प्राप्त उच्यते –
तदोकोऽग्रज्वलनम् तत्प्रकाशितद्वारो
विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च
हार्दानुगृहीतश्शताधिकया ॥ ४-२-१६ ॥
विद्वान् शताधिकया मूर्धन्ययैव नाड्या उत्क्रामति । न च नाड्या नानात्वाद्विदुषो दुर्विवेचत्वम् । विद्वान्हि परमपुरुषाराधनभूतात्यर्थ-प्रियविद्यासामर्थ्यात् विद्याशेषभूततया आत्मनः अत्यर्थप्रियगत्यनु-सन्धानयोगाच्च प्रसन्नेन हार्देन परमपुरुषेण अनुगृहीतो भवति । तदोकः तस्य जीवस्य स्थानम् हृदयम् अग्रे ज्वलनम् – प्रकाशनम् यस्य तदिदमग्रज्वलनम् । तत्प्रसादात् परमपुरुषप्रसादात् प्रकाशितद्वारो विद्वान् ताम् नाडीम् विजानातीति तया विदुषो गतिरुपपद्यते ॥
इति तदोकोऽधिकरणम् ॥