॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः
निशाधिकरणम् ॥ १० ॥
*दिवा च शुक्लपक्षश्च षण्मासा उत्तरायणम् । मुमूर्षताम् प्रशस्तानि विपरीतन्तु गर्हितमि* ति निशामरणस्य निन्दितत्वावेदने-नाधोगतिहेतुत्वप्रतीते: निशि मृतस्य ब्रह्मप्राप्तिर्नास्तीति पूर्वपक्षे प्राप्त उच्यते –
निशि नेति चेन्न सम्बन्धस्य
यावद्देहभावित्वाद्दर्शयति च ॥४-२-१८॥
तस्य ह्य्यर्थः । कर्मसम्बन्धाभावे शरीरान्तरपरिग्रहासम्भवाद्यावद्देहम् कर्मसम्बन्धो वक्तव्यः । निशि मृतस्यापि ब्रह्मविदः प्रारब्धव्यतिरिक्त-कर्मणाम् विद्यया नष्टत्वात् अवशिष्टप्रारब्धस्य भोगेन नष्टत्वात्, *तस्य तावदेव चिरमि*(छान्.६-१४-२)ति प्रारब्धकर्मार्जितशरीरपातमात्रस्यै-वान्तरायत्व श्रवणाच्च प्रारब्धकर्मार्जितशरीरनाशे पुनश्शरीरान्तराप्रसक्तेः निशि मृतस्यापि ब्रह्मविदोऽस्त्येव ब्रह्मप्राप्तिः ॥
इति निशाधिकरणम् ॥ १० ॥