[highlight_content]

परसम्पत्त्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तुर्थाध्यायस्य द्वितीयः पादः

परसम्पत्त्यधिकरणम् ॥ ६ ॥

*तेजः परस्याम् देवतायामि*(छान्.६-८-६)त्यत्र जीवपरिष्वक्ततेज-श्शब्दितभूतसूक्ष्माणाम् परदेवतासम्पत्तौ प्रयोजनाभावात् *तेजः परस्याम् देवतायामि*(छान्.६-८-६)ति श्रुतिः स्तुतिमात्रपरेति पूर्वपक्षे प्राप्त उ्यते –

तानि परे तथा ह्याह ॥४-२-१४॥

तानि जीवसम्सृष्टानि भूतसूक्ष्माणि परे परमात्मनि सम्पद्यन्ते । कुतः; तथाह्याह श्रुतिः – *तेजः परस्याम् देवतायामि*(छान्.६-८-६)ति । श्रुतिवशा सुषुप्तिप्रळययोरिव परमात्मसम्पत्तेः सुखदुःखोपभोगायास-विश्रमः प्रयोजनत्वेन परिकल्प्यत इति स्थितम् ॥

इति परसम्पत्त्यधिकरण् ॥

error: Content is protected !!