॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः
भूताधिकरणम् ॥४॥
*प्राणस्तेजसी*(छान्.६-८-६)ति जीवयुक्तस्य प्राणस्य तेजोमात्र एव सम्पत्तिश्रवणान्न सर्वभूतसम्पत्तिरिति प्राप्ते उच्यते –
भूतेषु तच्छ्रुतेः ॥ ४-२-५॥
स जीवः प्राणस्सम्हतेषु सर्वेषु भूतेषु सम्पद्यते । *पृथिवीमय आपोमयस्तेजोमय*(बृह.६-४-५) इति सञ्चरतो जीवस्य सर्वभूतमय-त्वश्रवणेन सर्वभूतसम्पत्तेर्वक्तव्यत्वात् ।
नैकस्मिन्दर्शयतो हि ॥ ६ ॥
एकस्मिन् तेजोमात्रे न सम्पद्यते एकैकस्य भूतस्य कार्याक्षमत्वम् *अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति तासाम् त्रिवृतम् त्रिवृतमेकैकाम् करवाणी*(छान्.६-३-२)ति *नानावीर्याः प्रथग्भूता स्तत-स्ते सम्हतिम् विना । नाशन्कुवन्प्रजास्स्रष्टुसमागम्य कृत्स्नशः ॥ समेत्यान्योन्यसम्योगम् परस्परसमाश्रयाः । महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते*(वि.पु.१-२-५२,५३) इति श्रुतिस्मृती दर्शयत इत्यर्थः ॥
इति भूताधिकरणम् ॥