॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः
मनोधिकरणम्॥२॥
*मनः प्राणे*(छान्.६-८-६) इत्यत्र मनोवृत्तेरेव प्राणे अप्यय उच्यते, मनश्शब्दस्य मनोवृत्तिष्वपि प्रचुरप्रयोगसत्त्वात् । न तु पूर्वोक्तरीत्या सम्योगविशेषस्सम्पत्तिशब्दार्थ इति प्राप्ते उच्यते –
तन्मनः प्राण उत्तरात् ॥४-२-३॥
मनसो निर्व्यापारताहेतुभूतः प्राणेन सम्योगविशेष एव इहापि सम्पत्ति- शब्दार्थः । ततश्च मन एव प्राणे सम्पद्यते *मनःप्राण*(छान्.६-८-६) इत्युत्तरवाक्यादित्यर्थः । मनश्शब्दस्य मनोवृत्तिपरत्वेऽपि सम्पत्तिश्रुते-र्गौणत्वावश्यम्भावेन मनश्शब्दस्य गौणत्वाश्रयणस्यान्याय्यत्वादिति ॥
इति मनोधिकरणम् ॥