॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः
रश्म्यनुसाराधिकरणम् ॥ ९ ॥
*अथ यत्रैतदस्माच्छरीरादुत्क्रामति अथैतैरेव रश्मिभिरूर्ध्वमाक्रमत* (छान्.८-६-५) इति प्रतिपादितस्य विदुषो रश्मिगमनस्य निशि मृते विदुष्यसम्भवात् रश्मिभिरेव गमनमिति न नियमः, अथैतैरेवरश्मि-भिरिति वचनन्तु पक्षप्राप्तविषयम् । एवकारस्तु अत्यन्तायोगव्यव-च्छेदार्थ इति प्राप्त उच्यते –
रश्म्यनुसारी ॥४-२-१७॥
विद्वान् नियमेन रश्मीननुसृत्यैव गच्छति । *एतैरेव रश्मिभिरि’* (छान्.८-६-५)त्येवकारस्य क्रिया सङ्गतैवकारत्वाभावेन अत्यन्ता-योगव्यवच्छेदार्थकत्वाभावेन अन्ययोगव्यवच्छेदार्थकत्वस्थैव वक्तव्यत्वात् । यदुक्तम् निशि रश्म्यसम्भवात् रश्मीननुसृत्य गमनम् नोपपद्यत इति तन्न । निदाघसमये रात्रावपि ऊष्मोपलम्भात् हेमन्तादौ तु हिमाभि-भवात् दुर्दिन इव ऊष्मानुपलम्भः । श्रूयते च नाडीरश्मीनाम् सर्वदा-ऽन्योन्यान्वयः । *तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमम् चामुम् च एवमेवैत आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमम् चामुम् च अमुष्मादादित्यात्प्रतायन्ते त आसु नाडीषु सृप्ताः आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ता*(छान्.८-६-२) इति ॥
इति रश्म्यनुसाराधिकरणम् ॥