॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः
वागधिकरणम् ॥ १ ॥
*वाङ्मनसि सम्पद्यते*(छान्.६-८-६) इति श्रूयमाण वाचो मनस्सम्त्ति- त्तिर्वाग्वृत्तिविषया न तु वाग्विषया । वाचो मनःप्रकृतिकत्वाभावेनाप्रकृति-भूते मनसि वाचः साक्षाल्लयासम्भवात् । न च वाग्वृत्तेरप्यप्रकृतिभूते मनसि सम्पत्तिशब्दितो लयो न सम्भवतीति वाच्यम् । मनसि स्थितेऽपि वाग्व्यापाराभावमात्रेण सम्पद्यत इत्युपपत्तेः । विद्यमानायास्तु वाचस्तादात्विकाभावस्याप्यभावेन सम्पत्तिश्रुतेरत्यन्तासम्भवादिति पूर्वपक्षे प्राप्त उच्यते –
वाङ्मनसि दर्शनाच्छब्दाच्च ॥४-२-१॥
वाक्स्वरूपमेव मनसि सम्पद्यते । वागिन्द्रिये उपरतेऽपि मनःप्रवृत्ति-दर्शनात् । *वाङ्मनसि सम्पद्यत*(छान्.६-८-६) इति शब्दाच्च वागेव मनसि सम्पद्यते । यद्यपि मनसो वाक्प्रकृतित्वम् नास्ति । तथाऽप्य-नुपरतव्यापारेऽपि मनसि वाच उपरतव्यापारत्वदर्शनात् वाङ्मनसि सम्पद्यत इवेत्युच्यते । वृत्तिपक्षेऽपि सम्पद्यत इत्यस्य गौणत्वावश्य-म्भावात् । ततश्च वाचो निर्व्यापारताहेतुभूतो मनसा सम्योगविशेष-स्सम्पत्तिशब्दार्थ इति द्रष्टव्यम् ।
अत एव सर्वाण्यनु ॥ ४-२-२ ॥
यतो वाचो मनसा सम्योगमात्रम् सम्पत्तिः अत एव *तस्मादुप-शान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानै* रिति वाचमनु सर्वेषामिन्द्रियाणाम् सम्पत्तिश्रुतिरपि तदर्थिकैवेत्यर्थ इति ॥
इति वागाधिकरणम् ॥