॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य तृतीयः पादः
अर्चिराद्यधिकरणम् ॥ १ ॥
छान्दोग्ये पञ्चाग्निविद्यायाम् *वेत्थ पथो देवयानस्य पितृयाणस्य च व्यावर्तना*(छान्.५-३-२)इति चतुर्थम् प्रश्नम् प्रतिपाद्य *तद्य इत्थम् विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ती*(छान्.५-१०-१)ति श्रुतम् । अत्र तच्छब्देन प्राक्प्रस्तुतम् सम्सारिजीवस्वरूपम् परामृश्यते तत्प्रत्यगात्मस्वरूपम् ये – इत्थम् – उक्तप्रकारेणद्युपर्जन्य-पृथिवीपुरुषयोषित्सु श्रद्धासोमवृष्ट्यन्नरेतश्शरीरकतया देहादिलक्षण-प्रकृतिवियुक्ततया च उपासत इत्यर्थः । उत्तरवाक्ये श्रद्धाशब्दो द्विती-यान्तः । वाजसनेयके समानप्रकरणे *श्रद्धाम् सत्यमुपासत*(बृह.८-२-१५) इति श्रवणात् । *सुपाम् सुलुगि*(अष्टा.७-१-३९)ति द्वितीयाया लुक् । तपश्शब्दोऽपि ब्रह्मपरः । *परमम् यो महत्तप* इत्यादिषु दर्शनात् । एवकारश्चात्राध्याहर्तव्यः । ततश्च अरण्ये स्थित्वा श्रद्धाम् पुरस्कृत्य तप एव ब्रह्मैव ये उपासते त उभयेऽपि अर्चिषमभिसम्भवन्ति प्राप्नुवन्त्येवेत्यर्थः । *अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासान्स्तान्मासेभ्यस्सम्वत्सरम् सम्वत्सरादादित्यमादि-त्याच्चन्द्रमसम् चन्द्रमसो विद्युतम् तत्पुरुषोऽमानवस्स एनान् ब्रह्म गमयती*(छान्.४-१५-५)ति । अत्र अर्चिरादि शब्दास्तत्तदभिमानि-देवतापराः । तत्पुरुषः – वैद्युतः पुरुषः – अमानवः – असम्सारी । ब्रह्मलोकादा गत्य एनान् पूर्वोक्तद्विविधोपासकान् ब्रह्मलोकम् प्रापय-तीत्यर्थः । *अमानवस्स एत्य ब्रह्मलोकान् गमयती*(बृह.८-२-१५)ति श्रुत्यन्तरे श्रवणात् । *एष देवयानः पन्था* इति स्पष्टोऽर्थः । अत्र अर्चिरादिरेक एव मार्ग: उत मार्गान्तरमप्यस्तीति सम्शये *यावत्क्षिप्येन्मनस्तावदादित्यम् गच्छती* ति त्वरावचनेन वैलक्षण्यप्रतीते: मार्गभेदोऽप्यस्तीति पूर्वपक्षे प्राप्त उच्यते –
अर्चिरादिना तत्प्रथितेः ॥ ४-३-१ ॥
नानाशाखासु तस्यैव मार्गस्य प्रथितेः प्रत्यभिज्ञानात् अर्चिरादिरेक एव मार्गः । त्वरावचनन्तु काश्मीरापेक्षया मगधान् क्षिप्रम् गच्छतीति-वदुपपत्तेः स्वर्गगमनाद्यपेक्षया आदित्यगमनस्य शैघ्र्येण न तस्माद्वैल-क्षण्यसिद्धिः ॥
इति अर्चिराद्यधिकरणम् ॥