॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य तृतीयः पादः
कार्याधिकरणम् ॥५॥
कार्यम् बादरिरस्य गत्युपपत्तेः ॥ ४-३-६ ॥
कार्यम् हिरण्यगर्भमुपासीनानेव अर्चिरादिर्गणो नयतीति बादरिराचार्यो मन्यते । परिच्छिन्नप्राप्त्यर्थम् हि गतिरुपपद्यते नापरिच्छिन्नपरब्रह्म-प्राप्तये । नह्याकाशम् प्रेप्सता देशविशेषो गन्तव्यो भवति ।
विशेषितत्वाच्च ॥ ४-३-७ ॥
*पुरुषोऽमानव एत्य ब्रह्मलोकान् गमयती*(बृह.८-२-१५)ति गन्त-व्यस्य बहुवचनान्तलोकशब्देन विशेषितत्वात्, परब्रह्मण एकत्वेन बहुत्वासम्भवात्, लोकशब्दस्य देशविशेष एव मुख्यत्वाच्च न परब्रह्मणोऽर्चिरादिप्राप्यत्वम् ।
ननु *स एनान् ब्रह्म गमयती*(छान्.४-१५-५)ति नपुम्सकलिङ्ग-ब्रह्मशब्देन चतुर्मुखस्य कथम् निर्देश इत्यत्राह –
सामीप्यात्तु तद्व्यपदेशः ॥ ४-३-८ ॥
*यो ब्रह्माणम् विदधाति पूर्वमि*(श्वेत.६-९८)ति हिरण्यगर्भस्य प्रथम-जत्वेन ब्रह्मसामीप्यात् ब्रह्मशब्देनामुख्यया वृत्त्या चतुर्मुखस्य निर्देश उपपद्यत इति भावः ।
ननु हिरण्यगर्भस्य द्विपरार्धावसाने नाशात् तम् प्राप्तस्य पुनरावृत्ते-रवर्जनीयत्वात् *एतेन प्रतिपद्यमाना इमम् मानवमार्तम् नावर्तन्त*(छान्. ४-१५-६) इत्यनावृत्तिप्रतिपादकश्रुतिविरोधः। तत्राह –
कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ ४-३-९ ॥
*ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे*(तै.महाना. ११-१२) इत्यभिधानात् कार्यस्य ब्रह्मलोकस्यात्यये तदध्यक्षेण ब्रह्मणा सह अतः ब्रह्मलोकात् परम्ब्रह्म प्राप्नोति । अतश्चानावृत्तिश्रुतिरुपपद्यत इति भावः ।
स्मृतेश्च ॥ ४-३-१० ॥
*ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परम्पदमि*(कूर्मपुराणे-पूर्वखण्डः १२-२६९)ति स्मृत्या कार्योपासकस्यैव अर्चिरादिप्राप्तिप्रतिपादनात् तदनुसार्येव बादरेर्मतम् ॥
परम् जैमिनिर्मुख्यत्वात् ॥ ४-३-११ ॥
नपुम्सकलिङ्गब्रह्मशब्दस्य परस्मिन्ब्रह्मण्येव मुख्यत्वात् परमेव ब्रह्म अर्चिरादिः प्रापयतीति जैमिनिराचार्यो मन्यते । तस्य परिपूर्णत्वेऽपि *परम् ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत*(छान्.८-३-४) इति श्रुत्यनुसारेण निश्शेषाविद्यानिवृत्तेर्देशविशेषविशिष्टब्रह्मप्राप्तिसापेक्षत्वात् देशविशेषविशिष्टब्रह्मप्राप्तये गतिरुपपद्यते । लोक्यत इति व्युत्पत्त्या लोक-शब्दोऽपि ब्रह्मण्युपपन्नः । बहुवचनमप्येकस्मिन्नुपचारात् प्रयुज्यते ।
दर्शनाच्च ॥ ४-३-१२ ॥
दर्शयति च श्रुतिर्ब्रह्मप्राप्तेर्गतिसापेक्षत्वम् *एष सम्प्रसादोऽस्माच्छरीरा-त्समुत्थाय परम् ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत*(छान्.८-३-४) इति ।
ननु *प्रजापतेस्सभाम् वेश्म प्रपद्ये*(छान्.८-१४-१) इति अर्चिरादिना गतस्य कार्यप्रजापतिविषयाभिसन्धिर्दृश्यते तत्राह –
न च कार्ये प्रत्यभिसन्धिः ॥ ४-३-१३ ॥
नायम् प्रत्यभिसन्धिः कार्यहिरण्यगर्भविषयः अपि तु परब्रह्मविषयः । तस्यैव प्रजापति शब्दमुख्यवाच्यत्वात् उत्तरत्र *यशोऽहम् भवामि ब्राह्मणानाम् यशो राज्ञाम् यशो विशामि*(छान्.८-१४-१)ति सर्वाविद्या- विमोकपूर्वकसर्वात्मभावाभिसन्धानात्, *अश्व इव रोमाणि विधूय पापम् चन्द्र इव राहोर्मुखात् प्रमुच्य धूत्वा शरीरमकृतम् कृतात्मा ब्रह्मलोक-मभिसम्भवानी*(छान्.८-१३-१)ति ब्रह्मलोकस्याकृतत्वेन विशेषितत्वाच्च परमेव ब्रह्मार्चिरादिर्नयतीति जैमिनिराचार्यो मन्यते ।
अप्रतीकालम्बनान्नयतीति बादरायण उभयथा
च दोषात्तत्क्रतुश्च ॥ ४-३-१४ ॥
अब्रह्मभूतम् नामादिकम् ये ब्रह्मत्वेनोपासते ते प्रतीकालम्बनाः । तद्भिन्नान् प्रकृतिवियुक्तम् प्रत्यगात्मानम् ब्रह्मात्मकत्वेन ये पञ्चाग्नि-विद उपासते ये च केवलम् परम्ब्रह्मोपासते, उभयविधानपि तान्नयतीति बादरायण आचार्यो मन्यते । केवलम् परमेवोपासीनान्नयतीति पक्षे, कार्यमुपासीनान्नयतीति पक्षे च *तद्य इत्थम् विदुर्येचेमेऽरण्ये*(छान्.५-१०-१) इति श्रुतिविरोधप्रसङ्गात् । ननु पञ्चाग्निविद्यायाः ब्रह्मात्मकप्रत्य- गात्मविद्यात्वे किम् प्रमाणम् । तत्राह – तत्क्रतुश्चेति । पञ्चाग्निविद्याया ब्रह्मविद्यात्वाभावे अर्चिरादिगतिर्वा, तया गत्या ब्रह्मप्राप्तिर्वा न स्यात्, तत्क्रतुन्यायविरोधप्रसङ्गात् । ब्रह्मविद्यात्वे तु तत्क्रतुन्यायोऽप्यनुगृहीतो भवति । इयाम्स्तु विशेषः पञ्चाग्निविद्या ब्रह्मात्मकस्वात्मविद्या | दहरादिविद्यास्तु प्रत्यमात्मशरीरकपरमात्मविद्याः । विशेषणविशेष्यभावे परम् व्यत्यासः । अयम् तु भगवतो बादरायणस्य सिद्धान्तः ।
विशेषञ्च दर्शयति ॥ ४-३-१५ ॥
*यावन्नाम्नो गतम् तत्रास्य यथा कामचारो भवती*(छान्.७-१-५) त्यादिकया श्रुत्या नामादि प्राणपर्यन्तप्रतीकोपासननिष्ठानाम् गत्यनपेक्षम् परिमितफलविशेषप्रतिपादनात् परब्रह्मोपासकान् प्रकृतिवियुक्तब्रह्मात्मक-स्वात्मोपासकाम्श्च अर्चिरादिरातिवाहिकगणो नयतीति ॥
इति कार्याधिकरणम् ॥
***************
इति श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य तृतीयः पादः ॥