॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य तृतीयः पादः
वरुणाधिकरणम् ॥ ३ ॥
*स एतम् देवयानम् पन्थानमापद्याग्निलोकमागच्छति स वायुलोकम् स वरुणलोकम् स आदित्यलोकम् स इन्द्रलोकम्*(कौषी.१-३) । सः – ब्रह्मवित् देहवियोगकाल एव सुकृतदुष्कृते विधूय देवयानमार्गम् आपद्य – अवलम्ब्य अग्निलोकमागच्छति । *तेऽर्चिषमभिसम्भवन्ती*(छान्.४-१५-५)ति अर्चिश्शब्दितस्याग्नेः देवयानमार्गप्रथमपर्वत्वश्रवणात् प्रथमतः अग्निलोकप्राप्तिरुपपन्ना । स वायुलोकम् – यद्यप्यत्राग्निलोकानन्तरम् वायुलोकश्श्रूयते । तथाऽपि श्रुत्यन्तरे – *अर्चिषोऽहरह्न आपूर्यमाणपक्षम् आपूर्यमाणपक्षाद्यान् षण्मासानुदङ्ङादित्य एति मासेभ्यो देवलोकमि*(बृ. ८-२-१५) ति देवलोकनिर्दिष्टस्य वायुलोकस्य उदगयनादूर्ध्वम् श्रवणात् उदगयनादूर्ध्वमेव वायुलोको निवेश्यः । तत्राप्युदगयनादूर्ध्वम् छान्दोग्ये – *मासेभ्यस्सम्वत्सरमि*(छान्.४-१५-५)ति श्रवणात् अधिक-कालानाम् न्यूनकालादूर्ध्वम् निवेशस्य* अह्न आपूर्यमाणपक्षमापूर्यमाण-पक्षाद्यान् षण्मासानुदङ्ङादित्य एती*(बृ.८-२-१५) त्यत्र दृष्ट-त्वात् उदगयनापेक्षया अधिककालस्य सम्वत्सरस्य तदूर्ध्वनिवेशस्सिद्धः । *स वायुलोकम् स वरुणलोकम् स आदित्यलोकम् स इन्द्रलोकम् स प्रजापतिलोकमि*(कौषी.१-३)तीदम् वाक्यम् अर्चिरादिपादे चिन्तितम् । “सम्वत्सरादादित्यमादित्याच्चन्द्रमसमि*(छान्.४-१५-६)ति । छान्दोग्ये *यदा वै पुरुषोऽस्माल्लोकात् प्रैति स वायुलोकमागच्छति स तत्र विजिहीते यथा रथचक्रस्य खम् तेन स ऊर्ध्वमाक्रमते स आदित्य-मागच्छति तस्मै स तत्र विजिहीते यथा डम्बरस्य खम् तेन स ऊर्ध्वमाक्रमते स चन्द्रमसमागच्छती*(छान्.४-१५-६)ति बृहदारण्यके च श्रुतत्वात् सम्वत्सरादूर्ध्वम् चन्द्रमसः प्रागादित्यस्य निवेशस्सिद्धः । तत्र च वरुणेन्द्रप्रजापतीनामपि पठितानाम् पाठार्थवत्त्वाय क्वचिन्निवेशे कर्तव्ये वायुलोकम् वरुणलोकमिति पाठक्रमानुसारेण वायोरूर्ध्वम् वरुणो निवेशयितव्यः । इन्द्रप्रजापती अपि तदनन्तरम् निवेशयितव्यौ । न च *स आदित्यलोकम् स इन्द्रलोकम् स प्रजापतिलोकमि*(कौषी.१-३)ति पाठक्रमादादित्यादूर्ध्वम् चन्द्रात्प्रागेव निवेशोऽस्त्वितिवाच्यम् । *आदित्याच्चन्द्रमसमि*(छान्.४-१५-६)ति आदित्यादूर्ध्वम् चन्द्रस्य श्रवणेन तत्क्रमबाधप्रसङ्गात् । न च चन्द्रादूर्ध्वम् तयोर्निवेशोऽस्त्विति वाच्यम् । *चन्द्रमसो विद्युतमि*(छान्.४-१५-६)ति श्रुतिक्रमबाधप्रसङ्गात् ।
ननु देवलोकादादित्यमिति देवलोकशब्दितवायोरादित्यस्य च क्रमस्य श्रुतत्वात् तत्रेन्द्रप्रजापत्योर्निवेशे तत्क्रमभङ्गस्स्यादिति चेन्न । वाय्वा-दित्ययोरन्तराळे वरुणस्य निवेशनीयतया तेनैव वाय्वादित्ययोरानन्त-र्यस्य भग्नतया तत्रैवेन्द्रप्रजापत्योरपि निवेशः । अतश्च वरुणेन्द्रप्रजा-पतीनाम् त्रयाणामपि वाय्वादित्ययोरन्तराळ एव निवेशोऽस्त्विति प्राप्ते उच्यते –
तटितोऽधिवरुणस्सम्बन्धात् ॥ ४-३-३ ॥
तटित ऊर्ध्वम् वरुणस्य निवेशः कुतः सम्बन्धात् । विद्युद्वरुणयो-र्द्वयोरपि मेघोदरवर्तित्व रूपसम्बन्धसत्वात् । विद्युत ऊर्ध्वम् वरुणस्य निवेशः । ततः परस्तात् इन्द्रप्रजापत्योर्निवेशः । तथाहि सति *देव-लोकादादित्यम् आदित्याच्चन्द्रमसम् चन्द्रमसो वैद्युतमि*(बृह.८-२-२५) ति निबद्धोऽपि क्रमो न बाधितो भवति । न चैवम् विद्युत ऊर्ध्वम् वरुणेन्द्रप्रजापतीनाम् निवेशे तेषामेव ब्रह्मगमयितृत्वेन *तत्पुरुषोऽमान-वस्स एनान् ब्रह्मगमयती*(छान्.४-१५-५)ति वैद्युतपुरुषस्य गमयितृत्वम् श्रुतम् विरुध्येतेति वाच्यम् । वरुणेन्द्रप्रजापतीनामगमयितृत्वेऽपि वैद्युतपुरुषस्याप्यनुग्राहकतया गमयितृत्वसम्भवादिति ॥
इति वरुणाधिकरणम् ॥