॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य चतुर्थः पादः
अभावाधिकरणम् ॥ ४ ॥
अभावम् बादरिराह ह्येवम् ॥ ४-४-१० ॥
शरीरेन्द्रियाणामभावम् बादरिराचार्यो मन्यते । *न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ती*(छान्.८-१२-१)त्येव श्रुतिराहेत्यर्थः ।
भावम् जैमिनिर्विकल्पामननात् ॥ ४-४-११ ॥
मुक्तस्य देहेन्द्रियादिसद्भावम् जैमिनिराचार्यो मन्यते । कुतः । विकल्पामननात् । विविधःकल्पः विकल्पः वैविध्यमित्यर्थः । *स एकधा भवति त्रिधा भवति पञ्चधा सप्तधे*(छान्.७-२६-२)त्यादिश्रुतेः । आत्मन एकस्याच्छेद्यस्यानेकधाभावासम्भवात् त्रिधाभावादयश्शरीर-निबन्धना इत्यवगम्यते । अशरीरत्ववचनम् तु कर्मकृतशरीराभावपरम् ।
द्वादशाहदुभयविधम् बादरायणोऽतः ॥ ४-४-१२ ॥
*सङ्कल्पादेवे*(छान्.८-२-१)ति पूर्वनिर्दिष्टस्सङ्कल्पोऽतश्शब्देन परामृश्यते । अतः सङ्कल्पवशादेव मुक्तस्य सशरीरत्वाशरीरत्व-लक्षणविधाद्वयमप्यस्ति । सङ्कल्पवशात्सशरीरोऽशरीरश्च भवतीति भगवान् बादरायणो मन्यते इत्यर्थः । द्वादशाहवत् यथा *द्वादशाह-मृद्धिकामा उपेयुः*(आप.श्रौत.सोम.प्र.) *द्वादशाहेन प्रजाकामम् याजयेदि* ति उपेतियजतिचोदनाभ्याम् द्वादशाहस्य सत्रत्वाहीनत्वरूपविधाद्वयवत्त्वम् एवमित्यर्थः ।
तन्वभावे सन्ध्यवदुपपत्तेः ॥ ४-४-१३ ॥
मुक्तस्य स्वतनुप्रभृतिभोगोपकरणसृष्टिसङ्कल्पाभावे स्वप्ने परमात्म-सृष्टैर्भोगोपकरणैर्यथा भोगान् भुङ्क्ते एवम् मुक्तस्सत्यसङ्कल्पोऽपि परमात्मसृष्टैर्भोगोपकरणैर्भोगाननुभवति ।
भावे जाग्रद्वत् ॥ ४-४-१४ ॥
मुक्तस्य स्वभोगोपकरणतनुभवनादिसृष्टिसङ्कल्पसत्त्वे यथा जाग्रत्पु-रुषः स्वार्जितैर्भोगोपकरणैर्भोगाननुभवति एवम् मुक्तोऽपि स्वसङ्कल्पसृष्टै-र्भोगोपकरणैर्भोगाननुभवति ।
नन्वणुपरिमाणस्य जीवस्य कथमनेकशरीरेष्वात्माभिमानसम्भवः तत्राह –
प्रदीपवदावेशस्तथाहि दर्शयति ॥ ४-४-१५ ॥
यथा प्रदीपस्यैकदेशस्थितस्य स्वप्रभया देशान्तरव्याप्तिः, एवमेक-देशस्थितस्यात्मनः धर्मभूतज्ञानादहमित्यात्माभिमानानुगुणा सर्वदेशेषु व्याप्तिरुपपद्यते । तथा हि दर्शयति श्रुतिः *बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवस्स विज्ञेयस्सचानन्त्याय कल्पते*(श्वेत.५-९
) इति । आनन्त्याय धर्मभूतकृतानन्त्यायेत्यर्थः । इयाम्स्तु विशेष: बद्धस्य कर्माधीनश्शरीरपरिग्रहः मुक्तस्य स्वेच्छायत्त इति ।
ननु *प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यम् किञ्चन वेद नान्तरमि* (बृह.६-३-२१)ति मुक्तस्य ज्ञानाभाव प्रतिपादनात् कथमनेकशरीरेष्वात्मा-भिमानानुगुणज्ञानव्याप्तिः तत्राह ।
स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतम् हि ॥ ४-४-१६ ॥
*न बाह्यम् किञ्चन वेद*(बृह.६-३-२१) इति ज्ञानाभावश्रुतेस्सुषुप्ति-मरणान्यतरविषयत्वात्सुषुप्तिमरणयोर्निस्सम्बोधत्वस्य *नाह खल्वय-मेवम् सम्प्रत्यात्मानम् जानाति*(छान्.८-११-२) *विज्ञानघन एवैतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति*(बृह.४-४-१२) इति श्रुतिभ्या-माविष्कृतत्वात् । अनुविनश्यति – न पश्यतीत्यर्थः । मुक्तस्य *मनसैतान्कामान्पश्यन्रमते*(छान्.८-१२-५) इति सार्वज्ञ्यस्याविष्कृतत्वा- च्चेति ॥
इति अभावाधिकरणम् ॥