॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य चतुर्थः पादः
अविभागेनदृष्टत्वाधिकरणम् ॥ २ ॥
किमयम् मुक्तः परञ्ज्योतिरुपसम्पन्नः स्वात्मानम् परमात्मनः पृथग्भूतमनुभवति उत परमात्मप्रकारतया परमात्मनः अविभागेन अनुभवतीति विशये *सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता*(तै. आन.१-२), *परमम् साम्यमुपैति*(मुण्ड.३-१-३) *मम साधर्म्यमागता* (गी.१४-२) इत्यादिश्रुतिस्मृतिभ्याम् मुक्तस्य परेण साम्यसाहित्यसाधर्म्य प्रतिपादनात् तेषाम् भेदगर्भत्वात् पृथग्भावेनैवानुभवतीति पूर्वपक्षे प्राप्त उच्यते –
अविभागेन दृष्टत्वात् ॥४-४-५॥
परब्रह्मणः स्वात्मानम् अविभागेन अनुभवति । परब्रह्मोपसम्पत्त्या निवृत्ताऽऽविद्यस्य स्वात्मनः परमात्मापृथक्सिद्धविशेषणत्वेन साक्षात्कृ-तत्वात् । साम्यसाधर्म्यादिशब्दानाम् ब्रह्मापृथक्सिद्ध विशेषणस्य प्रत्यगात्मनः देवादिप्राकृतरूपप्रहाणेन ब्रह्मसमानशुद्धिप्रतिपादकत्वेना-विरोधात् ॥
इति अविभागेनदृष्टत्वाधिकरणम् ॥