[highlight_content]

ब्राह्माधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तुर्थाध्यायस्य तुर्थः पादः

ब्राह्माधिकरणम् ॥३॥

ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥ ४-४-५

*स्वेन रूपेणाभिनिष्पद्यत*(छान्.८-१२-२) इत्यु्यमानम् स्वरूपम् किमित्याकाङ्क्षायाम् अस्मिन्प्रकरणे अपहतपाप्मत्वादिगुणानामेवो-पन्यासात् सत्यसङ्कल्पत्वकार्यजक्षणादिभ्यश् ब्रह्मसम्बन्धिना अपहत-पाप्मत्वादिगुणलक्षणेन रूपेणाविर्भवतीति जैमिनिराार्यो मन्यत इति ।

ितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः॥४-४-६॥

*प्रज्ञानघन एव*(बृह.६-५-१३), *विज्ञानघन एवे*(बृह.४-४-१२)ति ज्ञानैकरसत्वाम्नानेन निर्धर्मकत्वप्रतिपादनात् ज्ञानमात्रस्वरूपोणावि-र्भवतीति ।

एवमप्युपन्यासात्पूर्वभावादाविरोधम् बादरायणः॥४-४-७॥

तस्य ायमर्थः एवमपि विज्ञानघनत्वेऽपि अपहतपाप्मत्वाद्युपन्यासेन “ब्राह्मेण जैमिनिरुपन्यासादिभ्य*(ब्र.सू.४-४-५) इति पूर्वसूत्रोक्तब्रह्मरूप-स्यापि सम्भवात् सैन्धवघनस्य कृत्स्नस्य रसनेन्द्रियावगतरसघनत्वस्य क्षुराद्यवगतरूपकाठिन्यादेश्ाविरोधवत् मानान्तरावगतब्राह्मरूपस्य मानान्तरावगतविज्ञानघनत्वस्य ाविरोध इति बादरायण आार्यो मन्यते । *विज्ञानघन एवे*(बृह.४-४-१२)त्ये वकारस्य स्वप्रकाशत्वा-व्याप्ताम्शनिषेधमात्रपरत्वादिति ॥

इति ब्राह्माधिकरणम् ॥

error: Content is protected !!