॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य चतुर्थः पादः
ब्राह्माधिकरणम् ॥३॥
ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥ ४-४-५ ॥
*स्वेन रूपेणाभिनिष्पद्यत*(छान्.८-१२-२) इत्युच्यमानम् स्वरूपम् किमित्याकाङ्क्षायाम् अस्मिन्प्रकरणे अपहतपाप्मत्वादिगुणानामेवो-पन्यासात् सत्यसङ्कल्पत्वकार्यजक्षणादिभ्यश्च ब्रह्मसम्बन्धिना अपहत-पाप्मत्वादिगुणलक्षणेन रूपेणाविर्भवतीति जैमिनिराचार्यो मन्यत इति ।
चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः॥४-४-६॥
*प्रज्ञानघन एव*(बृह.६-५-१३), *विज्ञानघन एवे*(बृह.४-४-१२)ति ज्ञानैकरसत्वाम्नानेन निर्धर्मकत्वप्रतिपादनात् ज्ञानमात्रस्वरूपोणावि-र्भवतीति ।
एवमप्युपन्यासात्पूर्वभावादाविरोधम् बादरायणः॥४-४-७॥
तस्य चायमर्थः एवमपि विज्ञानघनत्वेऽपि अपहतपाप्मत्वाद्युपन्यासेन “ब्राह्मेण जैमिनिरुपन्यासादिभ्य*(ब्र.सू.४-४-५) इति पूर्वसूत्रोक्तब्रह्मरूप-स्यापि सम्भवात् सैन्धवघनस्य कृत्स्नस्य रसनेन्द्रियावगतरसघनत्वस्य चक्षुराद्यवगतरूपकाठिन्यादेश्चाविरोधवत् मानान्तरावगतब्राह्मरूपस्य च मानान्तरावगतविज्ञानघनत्वस्य चाविरोध इति बादरायण आचार्यो मन्यते । *विज्ञानघन एवे*(बृह.४-४-१२)त्ये वकारस्य स्वप्रकाशत्वा-व्याप्ताम्शनिषेधमात्रपरत्वादिति ॥
इति ब्राह्माधिकरणम् ॥