॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य चतुर्थः पादः
सङ्कल्पाधिकरणम् ॥ ४ ॥
सत्यसङ्कल्पत्वेन व्यवह्रियमाणानामपि राजादीनामभिलषितसृष्टेः प्रयत्नान्तरसापेक्षत्व दर्शनात् मुक्तस्यापि सिसृक्षितपितृलोकादिसृष्टिः सङ्कल्पव्यतिरिक्तप्रयत्नान्तरसापेक्षवैति प्राप्त उच्यते –
सङ्कल्पादेव तच्छ्रुतेः ॥ ४-४-८॥
सङ्कल्पमात्रादेव सृष्टिः । न प्रयत्नान्तरसापेक्षा कुतः । *सङ्कल्पादेव पितरस्समुत्तिष्ठन्ती*(छान्.८-२-१)ति एवकारश्रुतेः । न च एवकारस्य अयोगव्यवच्छेदकत्वमत्यन्तायोगव्यवच्छेदकत्वम् वाऽर्थः । विशेषण-क्रियासङ्गतयोरेव एवकारयोरयोगात्यन्तायोगव्यवच्छेदार्थकत्वेन एतस्य चातथात्वेन अन्ययोगव्यवच्छेदपरत्वस्यैव न्याय्यत्वात् ।
अत एव चानन्याधिपतिः॥४-४-९॥
अत एव – सत्यसङ्कल्पत्वादेव अनन्याधिपतिः – अन्याधिपतित्वम् विधिनिषेधयोग्यत्वम् विधिनिषेधयोग्यत्वे प्रतिहतसङ्कल्पत्वम् भवेत् । अतः सत्यसङ्कल्पत्वश्रुत्यैवानन्याधिपतित्वम् च सिद्धम् । अत एव *स स्वराड्भवती*(छान्.७-२५-१)त्युच्यते । अकर्मप्रतिहतज्ञानो मुक्तः विकारलोकान् ब्रह्मविभूतिभूताननुभूय स यथाकामम् तृप्यतीति सर्वेषु लोकेषु कामचारो भवतीति वाक्येनोच्यते ॥
इति सङ्कल्पाधिकरणम् ॥