॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य चतुर्थः पादः
सम्पद्याविर्भावाधिकरणम् ॥ १ ॥
स्वेन रूपेणाभिनिष्पद्यत*(छान्.८-१२-२) इति देवादिरूपवत् साध्येन रूपेणाभिनिष्पत्तिरुच्यते । अभिनिष्पत्तिशब्दस्यागन्तुकधर्मोत्पत्तिपरत्वात् स्वशब्दः स्वात्मीयवचनः । आगन्तुकस्यापि रूपस्यात्मीयत्वात् स्वेन रूपेणेत्युपपद्यते । न तु *स्वेन रूपेणाभिनिष्पद्यत*(छान्.८-१२-२) इत्यत्र स्वशब्दस्यात्मार्थकत्वम् वा निष्पत्तिशब्दस्याविर्भावार्थकत्वम् वा युक्तम्, स्वरूपस्य नित्यत्वेन तत्प्राप्तेरपुरुषार्थत्वप्रसङ्गादिति पूर्वपक्षे प्राप्ते उच्यते –
सम्पद्याविर्भावः स्वेनशब्दात् ॥ ४-४-१ ॥
परञ्ज्योतिरुपसम्पद्य स्वस्य रूपस्यैवाविर्भावः नत्वागन्तुकात्मीय-धर्मोत्पत्तिः । तथाहि सति *स्वेन रूपेणाभिनिष्पद्यत*(छान्.८-१२-२) इत्यत्र स्वेनशब्दवैयर्थ्यप्रसङ्गात् । अतः स्वशब्दो नात्मीयवचनः अपि त्वात्मवचन एव । आविर्भावेऽप्यभिनिष्पत्तिशब्दो दृश्यते – युक्त्याऽय-मर्थो निष्पन्नः *इदमेकम् सुनिष्पन्नमि*त्यादिषु । नन्वात्मनः पूर्व-सिद्धत्वात् कथम् तस्य पुरुषार्थत्वम् तत्राह –
मुक्तःप्रतिज्ञानात् ॥ ४-४-२ ॥
*स्वेन रूपेणाभिनिष्पद्यत*(छान्.८-१२-२) इत्यस्य मुक्तो भवतीत्यर्थः । निवृत्ताविद्यातिरोधानो भवतीति यावत् । कथमिदमवसीयत इति चेत् प्रतिज्ञानात् जागराद्यवस्थात्रयकलुषितम् जीवम् प्रस्तुत्य *एतम् त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मादि*(छान्.८-८-३)ति तस्यैव अशरीरत्वलक्षणमुक्तत्वम् *मघवन्मर्त्यम् वा इदम् शरीरमि*(छान्.८-१२-१)त्यादिना चतुर्थेन पर्यायेण प्रतिपादयिष्यामीति प्रतिज्ञानात् । निवृता-विद्यातिरोधानस्य स्वेन रूपेण साध्यत्वमस्त्येवेति न पुरुषार्थत्वहानिः ।
ननु निवृत्ततिरोधानस्याप्यात्मस्वरूपस्य कथञ्चित्साध्यत्व-सम्भवेऽपि तस्य न पुरुषार्थत्वे प्रमाणमस्तीत्यत्राह ।
आत्माप्रकरणात् ॥ ४-४-३ ॥
*य आत्माऽपहतपाप्मे*(छान्.८-७-१)त्यादिवाक्यसन्दर्भप्रतिपाद्या- पहतपाप्मत्वादिगुणाष्टकविशिष्टतयाऽत्यन्तानुकूलत्वेन परमपुरुषार्थ-भूतोऽयमात्मा । अपहतपाप्मत्वादीनाम् कथम् जीवसम्बन्धित्वम् इत्यत्राह – प्रकरणादिति । अवस्थात्रयकलुषितम् जीवम् प्रकृत्यैवाप-हतपाप्मत्वादिगुणानामाम्नानादित्यर्थ इति ॥
इति सम्पद्याविर्भावाधिकरणम् ॥