श्रीमहाचार्यैः विरचितः श्रीभाष्योपन्यासः
॥ अथ चतुर्थोऽध्यायः ॥
एवम् अङ्गैः सह विद्या तृतीये चिन्तिता । अनन्तरम् विद्याफलम् चिन्त्यते । तत्र प्रथमे पादे विद्यास्वरूपविशोधनपूर्वकम् देहावस्थिति-समये सम्भवद्विद्याफलम् चिन्त्यते । यद्यपि चतुर्थः फलनिरूपणपर एव तथापि भक्तिरूपापन्नस्य ज्ञानस्य प्रीतिरूपतया फलकोटिनिवेशन-ज्ञापनार्थम् अस्य इदम् साधनमिति साध्यसाधनभावसम्बन्धज्ञापनार्थम् च विद्यास्वरूपमात्रम् विशोध्यते ।
तत्र – *आवृत्तिः* इत्यत्र *ब्रह्मविदाप्नोति* इति वेदनमात्रस्यैव विधानात् असकृदावृत्तौ प्रमाणाभावात् सकृत्कृतमेव वेदनम् शास्त्रार्थ इत्याशङ्क्य *मनो ब्रह्मेत्युपासीत*त्यादिषु एकविषये वेदनोपासन-शब्दयोः पर्यायत्वेन प्रयोगात् उपासनशब्दपर्यायत्वेन अवगतवेदनशब्देन (ब्दोप) उपदेशात् उपासनशब्दस्य च असकृदावृत्तिज्ञान(वेदन)वाचित्वात् असकृदावृत्तमेव वेदनम् शास्त्रार्थ इत्युक्तम् ॥ १ ॥
*आत्मेती*त्यत्र जीवब्रह्मणोः भिन्नत्वात् जीवात् अन्यत्वेन ब्रह्म उपास्यमिति आशङ्क्य *त्वम् वा अहमस्मि भगवो देवते*त्यादिषु पूर्वोपासकैः *ब्रह्माहमि*त्यनुसन्धानदर्शनात् अर्थान्तरभूतस्यापि तस्य स्वात्मनः अन्तर्यामित्वेन अहमित्यनुसन्धानस्य अविरुद्धत्वात् आत्म-त्वेन उपास्यमित्युक्तम् ॥ २ ॥
*न प्रतीके न* इत्यत्र प्रतीकोपासनेऽपि ब्रह्मण एव उपास्यत्वात् आत्मत्वेन उपासनम् कर्तव्यमित्याशङ्क्य उत्कृष्टे निकृष्टदृष्ट्ययोगेन ब्रह्मणो दृष्टिविशेषणत्वेन प्रतीकानामेव उपास्यत्वम् न आत्मत्वेन उपासनमित्युक्तम् ॥ ३ ॥
*आदित्यादिमतयः* इत्यत्र उद्गीथादीनाम् फलसाधनतया उत्कृष्ट-त्वात् आदित्यादिषु उद्गीथादिदृष्टिः कार्येत्याशङ्क्य आदित्यादिदेवता-राधनद्वारेणैव कर्मणाम् फलसाधनत्वात् आदित्यादीनामेव उत्कृष्टत्वात् उद्गीथादौ आदित्यादिदृष्टिः कार्येत्युक्तम् ॥ ४ ॥
*आसीन* इत्यत्र *एवमनुतिष्ठेदि*ति विशेषाभिधानाभावात् *आसीनश्शयानस्तिष्ठन् गच्छन्वानुतिष्ठेत्* इत्याशङ्क्य आसीनस्यैव ध्यानपेक्षितचित्तैकाग्र्यसम्भवात् आसीन एव अनुतिष्ठेत् इत्युक्तम् ॥ ५ ॥
*आप्रायणादि*त्यत्र एकस्मिन् एव अहनि शास्त्रार्थस्य कृतत्वेन तावतैव परिसमापनीयमित्याशङ्क्य *स खल्वेवम् वर्तयन् यावदायषम्* इत्यादिश्रवणात् आप्रायणात् अनुवर्तनीयमित्युक्तम् ॥ ६ ॥
*तदधिगम* इत्यत्र *एव विदि पापम् कर्म न श्लिष्यते* *सर्वे पाप्मानः प्रदूयन्ते* इत्यादिवाक्योक्तौ कर्मणाम् अश्लेषाविनाशौ, *नाभुक्तम् क्षीयते कर्म* इत्यादिना विरोधात् नोपपद्येते इत्याशङ्क्य *नाभुक्तमि*ति वचनस्य कर्मणाम् फलजननशक्तिदार्ढ्यविषयत्वात्, अश्लेषविनाशश्रुत्योः विद्ययानुत्पन्नशक्तिप्रतिबन्धोत्पन्नशक्तिविनाशकरणविषयत्वाच्च विरोधा- भावात् उपपद्येते इत्युक्तम् ॥ ७ ॥
*इतरस्ये*त्यत्र सुकृतस्यापि विद्याविरोधित्वासाम्यात् सुकृतदुष्कृते धूनुत इत्यादिव्यपदेशाच्च अश्लेषविनाशावुक्तौ ॥ ८ ॥
*अनारब्धे*त्यत्र *सर्वे पाप्मानः प्रदूयन्ते* इत्यविशेषेण श्रवणात् आरब्धकार्ययोरपि अश्लेषविनाशौ इत्याशङ्क्य *तस्य तावदेव चिरम् यावन्न विमोक्ष्ये* इत्यादिश्रवणात् अनारब्धकार्ययोरेव इत्युक्तम् ॥ ९ ॥
*अग्निहोत्रादी*त्यत्र अश्लिष्टफलतया उक्तपुण्यवत् अग्निहोत्राद्याश्रम-धर्माणामपि पुण्यत्वाविशेषात् फलाश्लेषावश्यम्भावे, निष्फले च अनुष्ठाने इच्छाऽऽसम्भवात् अग्निहोत्रादीनाम् अननुष्ठानमित्याशङ्क्य *तमेतम् वेदानुवचनेन ब्राह्मणा विविदिषन्ति* इत्यादौ अग्निहोत्रादीनाम् विविदिषो (विद्यो) त्पत्यर्थत्वस्य श्रुतत्वात् फलाश्लेषासम्भवेन विद्याख्यकार्य-निष्पत्तये तानि अनुष्ठेयानीत्युक्तम् ॥ १० ॥
*भोगेन तु* इत्यत्र आरब्धकार्ययोः पुण्यपापयोः किम् विद्यायोनिशरीरावसानत्वमेव तच्छरीरावसानत्वम् शरीरान्तरावसानत्वम् वेत्यनियम इति सम्शये *तस्य तावदेव चिरम् यावान्न विमोक्ष्य* इति तच्छरीरावसानत्वश्रवणात् विद्यायोनिशरीरावसानत्वमेवेत्याशङ्क्य, आरब्धफलयोः पुण्यापापयो: भोगेन क्षपयितव्यत्वात् *यावन्न विमोक्ष्य* इत्यस्य शरीरावध्य श्रवणेन प्रारब्धकर्ममोक्षावधिपरत्वात्, तयोश्च कर्मणो: एकशरीरानुभाव्यफलत्वे तदवधित्वम्, अनेकशरीरानु-भाव्यफलत्वे शरीरान्तरावसानत्वम् इत्युक्तम् ॥ ११ ॥
॥ (इति) चतुर्थास्याध्यायस्य प्रथमःपादः ॥
——————–
द्वितीये पादे उत्क्रान्तिप्रकारश्चिन्त्यते ।
*तत्र वाङ् मनसी*त्यत्र *वाङ् मनसि सपद्यते* इत्यादिवाक्ये वाग्वृत्तेः मनसि सम्पत्तिरित्याशङ्क्य वाक्शब्दस्य वाग्वृत्तिपरत्वाभावात् इन्द्रियस्यैव मनस्सम्पत्तिरित्युक्तम् ॥ १ ॥
*तन्मन* इत्यत्र *मनः प्राण* इति वाक्ये मनसः प्राणे लय इत्याशङ्क्य प्राणस्य मनः प्रकृतित्वाभावात् प्राणेन सम्योगमात्र-मित्युक्तम् ॥ २ ॥
*सोऽध्यक्ष* इत्यत्र *प्राणस्तेजसी*ति श्रवणात् प्राणस्य तेजसि सम्पत्तिरित्याशङ्क्य *आत्मानमन्तकाले सर्वे प्राणा अभिसमायान्ति* इति जीवोपगमश्रवणात् जीवेन सम्युज्य तेन सह तेजस्सम्पत्तावपि, प्राणस्तेजसीति युज्यत इत्युक्तम् ॥ ३ ॥
*भूतेषु* इत्यत्र प्राणस्तेजसीति श्रवणात् जीवेन सम्युक्तस्य प्राणस्य तेजोमात्रे सम्पत्तिरित्याशङ्क्य *पृथिवीमय आपोमय* इत्यादिना सञ्चरतो जीवस्य सर्वभूतमयत्वश्रुतेः भूतान्तरसम्सृष्टतेजस्सम्पत्ति-रित्युक्तम् ॥ ४ ॥
*समाना चे*त्यत्र *अथ मर्त्योऽमृतो भवति* इति वाक्ये *अत्र ब्रह्म समश्नुते* इति इहैव अमृतत्ववचनात् विदुष उत्क्रान्तिः नास्तीत्या-शङ्क्य *तयोर्ध्वमायन्नमृतत्वमेति* इति विदुषोऽप्युत्क्रान्तिश्रवणात् *अथ मर्त्योऽमृत* इत्यादिवचनस्य अदग्धदेहसम्बन्धस्यैव उत्तरपूर्वा-र्धयोः अश्लेषविनाशरूपामृतत्वप्रतिपादनपरत्वाच्च विदुषोऽप्युत्क्रान्तिरस्ति । सा चानाडीप्रवेशात् विद्वदविदुषोस्समानेत्युक्तम् ॥ ५ ॥
*तानि परे* इत्यत्र जीवसम्युक्तानि तेजः प्रभृतीनि यथाकर्म यथा-विद्यम् च स्वकार्याय गच्छन्तीत्याशङ्क्य *परस्याम् देवतायाम्* इति श्रवणात् तानि परमात्मनि सम्पद्यन्त इत्युक्तम् ॥ ६ ॥
*अविभागो वचनात्* इत्यत्र तेजः प्रभृतीनाम् सर्वकारणभूते पर-मात्मनि लय इत्याशङ्क्य *वाङ्मनसि सम्पद्यते* इत्यस्य अनुषङ्गात् तस्य च सम्योगवाचित्वात् *परमात्मनि तेषाम् सम्योग* इत्युक्तम् ॥ ७ ॥
*तदोकोऽग्रज्वलनम्* इत्यत्र नाडीनाम् दुर्विवेचनत्वात् *तयोर्ध्व-मायन्नमृतत्वमेती*ति मूर्त्या (मूर्धन्यया) नाड्या उद्गमनम् न नियमितमित्याशङ्क्य परमात्मप्रसादेन प्रकाशितद्वारत्वात् मूर्ध्न्या (र्धन्यया) नाड्या उद्गमनम् नियमितमित्युक्तम् ॥ ८ ॥
*रश्म्यनुसारी* इत्यत्र *अथैतैरेव रश्मिभिः ऊर्ध्वमाक्रमते* इत्यादि- वाक्येनोक्तम् रश्म्यमनुसारेण गमनमनियतम् निशि मृतस्य रश्म्यनु-सारासम्भवादित्याशङ्क्य निश्यपि निदाघसमये औष्ण्योपलम्भात् रश्मिसद्भावावगमात् रश्म्यनुसारेण गमनमित्युक्तम् ॥ ९ ॥
*निशि नेति चेत्* इत्यत्र *दिवा च शुक्लपक्षश्चे*त्यादौ *विपरीतम् तु गर्हिन्तमि*ति निशि मरणस्य गर्हिततया अधोगतिहेतुत्वात् निशि मृतस्य ब्रह्मप्राप्तिः नास्तीत्याशङ्क्य विदुष उत्तरपूर्वाघयोः अश्लेषविना-शाभ्याम् आरब्धकार्ययोरनुभवेन विनष्टत्वाच्च वन्धहेत्वभावात् विपरीतम् तु गर्हितमित्यस्याविद्वद्विषयत्वाच्च निशि मृतस्यापि ब्रह्मप्राप्तिरस्ती-त्यूक्तम् ॥ १० ॥
*अतश्चे*त्यत्र *अथ यो दक्षिणे प्रमीयते* इत्यादिवाक्ये दक्षि-णायनमृतस्य चन्द्रप्राप्तिश्रवणाच्चन्द्रम् प्राप्तानाम् च *अथैतमेवाध्वानम् पुनर्निवर्तन्त* इति पुनरावृत्तिश्रवणात् दक्षिणायनमृतस्य ब्रह्मप्राप्तिः नास्तीत्याशङ्क्य अविदुषामेव चन्द्रम् प्राप्तानाम् पुनरावृत्तिः विदुषाम् तु चन्द्रम् प्राप्तानाम् *तस्मात् ब्रह्मणो महिमानमाप्नोति* इति वाक्यशेषे ब्रह्मप्राप्तिश्रुतेः दक्षिणायनमृतानामपि ब्रह्मप्राप्तिरस्तीत्युक्तम् ॥ ११ ॥
॥ (इति) चतुर्थस्याध्यायस्य द्वितीयः पादः ॥
————-
उत्क्रान्तिश्चिन्तिता । अथ मार्गश्चिन्त्यते ।
*अर्चिरादिने*त्यत्र छान्दोग्यकौषीतकीप्रभृतिषु बहुविधमार्गाम्नानात् ब्रह्मविदाम् अर्चिरादिमार्गेणैव गमनमिति नियमो नास्तीत्याशङ्क्य सर्वत्रापि अर्चिरादिमार्गैकत्वप्रत्यभिज्ञानात् एक एव मार्ग इति तेनैव मार्गेण सर्वे गच्छन्तीत्युक्तम् ॥ १ ॥
*वायुमि*त्यत्र छान्दोग्ये वाजसनेयके च आदित्यात् पूर्वमभि-हितयोः वायुदेवलोकयोः श्रौतक्रमविशेषात् अनियमेन प्राप्तिरित्याशङ्क्य वायुदेवलोकशब्दाभ्याम् सामान्यविशेषरूपाभ्याम् एकस्यैव प्रतिपादनात् पर्वभेदाभावेन नियमेन प्राप्तिरित्युक्तम् ॥ २ ॥
*तडित* इत्यत्र कौषीतकिनाम् स वायुलोकम्, स वरुणलोकम्, इत्यादिवाक्ये वायोरनन्तरनेर्दिष्टानाम् वरुणादीनाम् यथापाठम् तत्रैव निवेश इत्याशङ्क्य तटिद्वरुणयोः मेघोदरोपर्यधोभागे भवस्थानरूप-सम्बन्धात् तटितः अनन्तरमेव वरुणादीनाम् निवेश इत्युक्तम् ॥ ३ ॥
*आतिवाहिका* इत्यत्र अर्चिरादिप्रतिपादकवाक्यानाम् लौकिकवाक्यो (मार्गो) पदेशरूपत्वात् अर्चिरादयो मार्गाचिह्नभूताः अथवा अहरादीनाम् मार्गचिह्नत्वोपपत्तेः लोकशब्दश्रवणाच्च ते भोगभूमय इत्याशङ्क्य *तत्पुरुषोऽमानवस्स एनान् ब्रह्म गमयती*त्युपसम्हारे गमयितृविशेष-श्रवणात् पुर्वेषामप्यविशेषेण श्रुतानाम् तदेव न्यायमित्यर्चिरादयः आतिवाहिका इत्युक्तम् ॥ ४ ॥
*कार्यम् बादरिः* इत्यत्र कार्यहिरण्यगर्भमुपासीनानातिवाहिको नयति । तस्यैव देश (काल) विशेषवर्तितया (तत्प्राप्य ) गत्युपपत्तेरिति बादरिमतमनूद्य *स एनान् ब्रह्म गमयती*ति ब्रह्मशब्दस्य परमात्मन्येव मुख्यवृत्तत्वात् परमात्मनः सर्वगतत्वेऽपि निरवशेषाविद्यानिवृत्यर्थम् देश विशेषगत्युपपत्तेः परमेव ब्रह्मोपासीनान्नयतीति जैमिनिमतेनापोद्य, *तद्य इत्थम् विदुः ये चेमेऽरण्ये श्रद्धाम् सत्यमित्युपासते तेऽर्चिषमेवाभि-सम्भवन्ती*ति पञ्चाग्निविद्यानिष्ठानाम् परब्रह्मोपासकानाम् च अर्चिरादि-गतिश्रवणात् प्रतीकालम्बनव्यतिरिक्तान् नयतीति स्वमतमुपन्यस्तम् ॥ ५ ॥
॥ (इति)चर्तुथस्याध्यायस्य तृतीयः पादः ॥
————————
एवम् अर्चिरादिगतिः निरूपिता । अथ मुक्तानाम् ऐश्वर्यप्रकार-श्चिन्त्यते ।
तत्र *सम्पद्याविः* इत्यत्र *परम् ज्योतिरुपसम्पद्य स्वेन रूपेण अभिनिष्पद्यते* इति अभिनिष्पत्तिश्रवणात् साध्येन रूपेण सम्बध्यते इत्याशङ्क्य *स्वेन रूपेणे*ति स्वाभाविकत्व श्रवणात् अभिनिष्पत्ति-वचनस्य अभिव्यक्तावपि प्रयोगात् स्वाभाविकेन रूपेण सम्बध्यते इत्युक्तम् ॥ १ ॥
*अविभागेने*त्यत्र *निरञ्जनः परमम् साम्यमुपैतीति* मुक्तस्य साम्यापत्तिश्रवणात् पृथग्भूतस्यैव साम्यसम्भवात् मुक्तःस्वस्मात् पृथग्भूतमेव परमात्मानमनुभवतीत्याशङ्क्यप्रत्यगात्म स्वरूपस्य ब्रह्मप्रकारतैकस्वभावत्वात् तस्य च निरस्ताविद्यातिरोधानतया याथातथ्येन दृष्टत्वात् प्रकारभूतस्यापि गुणाष्टकयोगेन परमात्मसाम्यस्य सम्भवाच्च अविभागेनानुभव इत्युक्तम् ॥ २ ॥
*ब्राह्मेण जैमिनिः* इत्यत्र *स्वेन रूपेण अभिनिष्पद्यते* इत्यत्र अभिनिष्पद्यतया उक्तम् रूपम् किम् अपहतपाप्मत्वादिकमेव उत ज्ञान-मात्रमेव उत उभयमिति विशये मुक्तमधिकृत्य अपहतपाप्मत्वाद्यु-पन्यासात् तेनैव रूपेणाविर्भवति मुक्त इति जैमिनिमतमनूद्य *विज्ञानघन
एवे*त्यादिषु ज्ञानमात्रमेवास्य रूपमित्यवगमात् अपहतपाप्मत्वादि-शब्दानाम् शोकाद्यभावपरत्वाच्च ज्ञानमात्रस्वरूपेण आविर्भवतीति औडुलोमिमतमुपन्यस्य पक्षद्वयेऽपि अन्यतरश्रुतिबाधरूप-दोषात् *विज्ञानघन एव* इत्यवधारणस्य एकदेशे जडत्वशङ्काव्युदासपरत्वेन गुणान्तरप्रतिक्षेपकत्वाभावात् उभयरूपेण आविर्भवतीति स्वमतेन मतद्वयम् प्रतिक्षिप्तम् ॥ ३ ॥
*सङ्कल्पादेव तु* इत्यत्र सत्यसङ्कल्पत्वेन वर्ण्यमानानाम् राज्ञाम् कार्यनिष्पादने प्रयत्नसापेक्षत्वदर्शनात् मुक्तस्य सत्यसङ्कल्पस्यापि पितृलोकादिसृष्टिः प्रयत्नसापेक्षेत्याशङ्क्य *सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ती*ति अवधारणात् प्रयत्नसापेक्षत्वे प्रमाणाभावाच्च सङ्कल्प-मात्रादेव सृष्टिरित्युक्तम् ॥ ४ ॥
*आभावम् बादरि;* इत्यत्र शरीरस्य दुःखहेतुत्वात् मुक्त अशरीर एवेति बादरिमतमनूद्य *एकधा भवति* इत्यादिषु मुक्तस्य अनेकधाभाव-श्रवणात् अच्छेद्यस्य निरवयवस्य शरीरेण विना अनेकधाभावानुपपत्तेः कर्मकृतशरीरस्यैव दुःखेहेतुत्वाच्च सशरीर एवायमिति जैमिनिमतेन तत्प्रतिक्षिप्य सत्यसङ्कल्पोऽयम् इच्छानुरोधेन कदाचित् सशरीर: कदाचित् अशरीरः इति स्वमतमुपन्यस्तम् ॥ ५ ॥
*जगद्व्यापारे*त्यत्र मुक्तस्य भगवतः परमसाम्यापत्तिश्रवणात् जगन्नियमनादिकमपि मुक्तस्य ऐश्वर्यमित्याशङ्क्य जगन्नियमन-प्रतिपादनेषु परमात्मनः प्रकृतत्वात् मुक्तस्य असन्निहितत्वाच्च भोगमात्रम् सम्भवतीत्युक्तम् ॥ ६ ॥
*“अनावृत्तिः शब्दादि*त्यत्र भगवत्स्वातन्त्र्यान्मुक्तस्य पुनरावृत्तिः सम्भवतीत्याशङ्क्य *इमम् मानवमावर्तम् नावर्तन्त* इत्यादिना अनावृत्ति श्रवणात् आश्रितस्यामुग्धस्य भगवतः तन्निवर्तनसङ्कल्पा-भावाच्च मुक्तस्य पुनरावृत्तिः न सम्भवतीत्युपसम्हृतम् ॥ ७ ॥
इति श्रीवाधूलकुलधुरन्धरस्य आश्रुतमीमाम्सावल्लभस्य श्रीमहाचार्यस्य कृतिषु श्रीभाष्योपन्यासे चतुर्थस्य अध्यायस्य चतुर्थः पादः ॥
॥ समाप्तश्च चतुर्थोऽध्यायः ॥
॥ ग्रन्थश्च समाप्तः ॥
॥शुभमस्तु ॥
श्रीः
——————