॥ शारीरकमीमांसाभाष्ये प्राणाधिकरणम् ॥
(अधिकरणार्थः – प्राणत्वेनोपास्यः परमात्मैव, न भूतचतुर्थो वायुः)
(प्राणविद्या छा.उ.1-10,11)
२४. अत एव प्राण: ॥ १-१-२४॥
(विषयवाक्यप्रदर्शनम्)
इदमाम्नायते छान्दोग्ये – प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता (छा.उ.1.10.9) इति प्रस्तुत्य, कतमा सा देवतेति प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रास्तोष्यो मूर्धा ते व्यपतिष्यत् (छां.१.११.४,५) इति॥
(सिद्धान्तार्थः)
अत्र प्राणशब्दोऽप्याकाशशब्दवत्प्रसिद्धप्राणव्यतिरक्ते परस्मिन्नेव ब्रह्मणि वर्तते। तदसाधारणनिखिलजगत्प्रवेश-निष्क्रमणादिलिङ्गात्प्रसिद्धवर्न्निर्दिष्टात् ॥
(अधिकरणभेदप्रयोजकौ शङ्कापरिहारौ)
अधिकाशङ्का तु – कृत्स्न्स्य भूतजातस्य प्राणाधीनस्थितिप्रवृत्त्यादिदर्शनात् प्रसिद्ध एव प्राणो जगत्कारणतया निर्देशमर्हाति – इति॥
परिहारस्तु – शिलाकाष्टादिषु चेतनस्वरूपे च तदभावात् सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते (छा.१.११.५) इति नोपपद्यत इति। अत: प्राणयति सर्वाणि भूतनीति कृत्वा परं ब्रह्मैव प्राणशब्देनाभिधीयते ॥
(अधिकरणद्वयार्थनिगमनम्)
अत: प्रसिद्धाकाशप्राणादेरन्यदेव निखिलजगदेककारणापहतपाप्मत्वसार्वज्ञ्य-सत्यसङ्कल्पत्वादि अनन्तकल्याणगुणगणं परं ब्रह्मैवाकाश प्राणादिशब्दाभिधेयमिति सिद्धम्॥२४॥
इति श्रीशारीरकमीमांसाभाष्ये प्राणाधिकरणम् ॥ ९ ॥