[highlight_content]

श्रीभाष्यम् 01-01-11 इन्द्रप्राणाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये इन्द्रप्राणाधिकरणम्॥११॥

(अधिकरणार्थः – इन्द्रत्वेनोपास्यः, न तु शीपतिरिन्द्रः

(प्रतर्दनविद्या (कौषी.उ.3))

(अवान्तरसङ्गतिः)

निरतिशयदीप्तियुक्तं ज्योतिश्शब्दाभिधेयं प्रसिद्धवन्निर्दिष्टं परमपुरुष एवेत्युक्तम्। इदानीं कारणत्वव्याप्तामृतत्वप्राप्त्युपायतयोपास्यत्वेन श्रुत इन्द्रप्राणादिशब्दाभिधेयोऽपि परमपुरुष एवेत्याह

२९. प्राणस्तथाऽनुगमात् ॥ १-१-२९ ॥

(विषयवाक्यप्रतिपादनम्

कौषीतकीब्राह्मणे प्रतर्दनविद्यायां प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन पौरुषेण (कौ.३-१) इत्यारभ्य वरं वृणीष्व (कौ.३.१) इति वक्तारमिन्द्रं प्रति त्वमेव मे वरं वृणीष्व यं त्व मनुष्याय हिततमं मन्यसे (कौ.३.१) इति प्रतर्दनेनोक्ते        स होवा प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व (कौ.३.१) इति श्रूयते ॥

(अधिकरणाङ्गभूतः संशयः)

तत्र संशय: – किमयं हिततमोपासनकर्मतयेन्द्रप्राणशब्दनिर्दिष्टो जीव एव; उत तदतिरिक्त: परमात्मा इति।

(सयुक्तिकः पूर्वपक्षः)

किं युक्तम्, जीव एवेति। कुत:? इन्द्रशब्दस्य जीवविशेष एव प्रसिद्धे:, तत्समानाधिकरणस्य प्राणशब्दस्यापि तत्रैव वृत्ते:। अयमिन्द्राभिधानो जीव: प्रतर्दनेन त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे (कौ.३.१) इत्युक्त: मामुपास्व (कौ.३.१) इति स्वात्मोपासनं हिततममुपदिदेश। हिततमश्ामृतत्वप्राप्त्युपाय एव। जगत्कारणोपासनस्यैव अमृतत्वप्राप्तिहेतुता तस्य तावदेव िरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये (छा.६.१४.२) इत्यवगता। अत: प्रसिद्धजीवभाव इन्द्र एव कारणं ब्रह – इत्याशङ्कायाम्

(सिद्धान्तारम्भः)

अभिधीयते प्राणस्तथानुगमात् – इति; अयमिन्द्रप्राणशब्दनिर्दिष्टो न जीवमात्रम्,  अपि तु जीवादर्थान्तरभूतं परं ब्रह्म। स एष प्राण एव प्रज्ञात्मा आनन्दोऽजरोमृत: (कौ.३.१) इतीन्द्रप्राणशब्दाभ्यां प्रस्तुतस्याऽनन्दजरामृतशब्द सामानाधिकरण्येनानुगमो हि तथा सत्येवोपपद्यते ॥२९॥

(उक्तस्य सिद्धान्तस्यार्थस्य आक्षेपपूर्वकं स्थिरीकरणम्)

३०. न वक्तुरात्मोपेदशादिति ेदध्यात्मसंबन्धभूमा ह्यस्मिन् ॥ १-१-३० ॥

(सिद्धान्तिनं प्रति मध्ये पूर्वपक्षः, समाधानं )

यदुक्तमिन्द्रप्राणशब्दनिर्दिष्टस्य आनन्दोऽजरोऽमृत: (कौ.३.९) इत्यनेनैकार्थ्यादयं परं ब्रह्मेति तत्  नोपपद्यते, मामेव विजानीहि (कौ.३.१), प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व (कौ.३.१) इति वक्ता हीन्द्र: त्रिशीर्षाणं त्वाष्ट्रमहनम् (कौ.३.१) इत्येवमादिना त्वाष्ट्रवधादिभि: प्रज्ञातजीवभावस्य स्वात्मन एवोपास्यतां प्रतर्दनायोपदिशति। अत उपक्रमे जीविविशेष इत्यवगते सति आनन्दोऽजरोऽमृत: (कौ.३.९) इत्यादिभिरुपसंहारस्तदनुगुण एव वर्णनीय इति ेत् –

परिहरति- अध्यात्मसम्बन्धभूमा ह्यस्मन् – आत्मनि यस्सम्बन्धस्सोऽध्यात्मसम्बन्ध:। तस्य भूमा – भूयस्त्वम् – बहुत्वमित्यर्थ:। आत्मन्याधेयतया सम्बध्यमानानां बहुत्वेन सम्बन्धबहुत्वम्। तास्मिन्वक्तरि परमात्मन्येव हि सम्भवति। तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्रा: प्रज्ञामात्रास्वर्पिता: प्रज्ञामात्रा: प्राणेऽर्पितास्स एष प्राण एव प्रज्ञात्माऽजरोऽमृत: (कौ.३.९) इति भूतमात्राशब्देनाेतनवस्तुजातमभिधाय प्रज्ञामात्राशब्देन तदाधारतया ेतनवर्गं ाभिधाय तस्याप्याधारतया प्रकृतमिन्द्रप्राणशब्दाभिधेयं निर्दिश्य तमेव आनन्दोऽजरोऽमृत:, (कौ.३.९) इत्युपदिशति। तदेतेतनाेतनात्मककृत्स्नवस्त्वाधारत्वं जीवादर्थान्तरभूतेऽस्मिन् परमात्मन्येवोपपद्यत इत्यर्थ:।

(मुखान्तरेण योजनम्)

अथवा अध्यात्मसम्बन्धभूमा ह्यस्मिन्  परमात्मासाधारणधर्मसम्बन्धोऽध्यात्मसम्बन्ध:। तस्य भूमा बहुत्वं हि अस्मिन् प्रकरणे विद्यते। तथाहि – प्रथमं त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे (कौ.३.९) इति मामुपास्स्व (कौ.३.९) इति परमात्मासाधारणमोक्षसाधानोपासनकर्मत्वं प्राणशब्दनिर्दिष्टस्येन्द्रस्य प्रतीयते। तथा एष एव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषति एष एवासाधु कर्म कारयति तं यमधो निनीषति, (कौ.३.९) इति सर्वस्य कर्मण: कारयितृत्वं परमात्मधर्म:। तथा तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा  अर्पिता: एवमेवैता भूतमात्रा: प्रज्ञामात्रास्वर्पिता: प्रज्ञामात्रा: प्राणेऽर्पिता: (कौ.३.९) इति सर्वाधारत्वं तस्यैव धर्म:। तथा स एष प्राण एव प्रज्ञात्माऽनन्दोऽजरोऽमृत: (कौ.३.९) इत्येतेऽपि परमात्मन एव धर्मा:।  एष लोकाधिपतिरेष सर्वेश: (कोषी.३.९) इति परमात्मन्येव सम्भवति। तदेवमध्यात्मसम्बन्धभूम्नोऽत्र विद्यमानत्वात्परमात्मैवात्रेन्द्रप्राणशब्दनिर्दिष्ट:॥३०॥

(इन्द्रेण स्वात्मनः उपास्यत्वोपदेशसाङ्गत्यम्)

कथं तर्हि प्रज्ञातजीवभावस्येन्द्रस्य स्वात्मन उपास्यत्वोपदेशस्सङ्ग्छते; तत्राह-

३१. शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥ १-१-३१ ॥

प्रज्ञातजीवभावेनेन्द्रेण मामेव विजानीहि (कौ.३.१.) मामुपास्स्व (कौ.३.१.) इत्युपास्यस्य ब्रह्मणस्स्वात्मत्वेनोपदेशोऽयं न प्रमाणान्तरप्राप्तस्वात्मावलोकनकृत:,  अपितु शास्त्रेण स्वात्मदृष्टिकृत: ॥

(जीववािशब्दानां परमात्मपर्यन्तत्वसमर्थनम्)

एतदुक्तं भवति –  अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि (छा.६.३.२), ऐतदात्म्यमिदं सर्वम् (छां.६.८.७), अन्त:प्रविष्टश्शास्ताजनानां सर्वात्मा (यजु.आर), य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति (बृ.५.७.२२), एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायण: (सुबाल.७) इत्येवमादिना शास्त्रेण जीवात्मशरीरकं परमात्मानमवगम्य जीवात्मवािनां अहंत्वमादिशब्दानामपि परमात्मन्येव पर्यवसानं ज्ञात्वा मामेव विजानीहि (कौषी.३.९) मामुपास्स्व (कौ.३.१) इति स्वात्मशरीरकं परमात्मानमेवोपास्यत्वेनोपदिदेश – इति। वामदेववत् – यथा वामदेव: परस्य ब्रह्मण: सर्वान्तरात्मत्वं सर्वस्य ्छरीरत्वं शरीरवािनां शब्दानां शरीरिणि पर्यवसानं पश्यन् अहम् इति स्वात्मशरीरकं परं ब्रह्म निर्दिश्य तत्सामानाधिकरण्येन मनुसूर्यादीन् व्यपदिशति तद्धैतत्पश्यन्नृषिर्वामदेव: प्रतिपेदे अहं मनुरभवं सूर्यश्ाहं कक्षीवानृषिरस्मि विप्र: (बृ.३.४.१०) इत्यादिना। यथा प्रह्लाद: सर्वगत्वादनन्तस्य स एवाहमवस्थित:। मत्तस्सर्वमहं सर्वं मयि सर्वं सनातने (वि.पु.१.१९.८९) इत्यादि वदति॥३१॥

    अस्मिन् प्रकरणे जीववािभिश्शब्दैरिद्विशेषाभिधायिभिश्ोपास्यभूतस्य परस्य ब्रह्मणोऽभिधाने कारणं ोद्यपूर्वकमाह –

३२. जीवमुख्यप्राणलिङ्गान्नेति ेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॥ १-१-३२ ॥

न वां विजिज्ञासीत वक्तारं विद्यात् (कौ.१.८), त्रिशीर्षाणं त्वाष्ट्रमहनम् अरुन्मुखान्यतीन् सालावृकेभ्य: प्राय्छम् (कौषी ३.१) इत्यादिजीवलिङ्गात्, यावदस्मिन् शरीरे प्राणो वसति तावदायु: (कौ.३.१) अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति (कौ.३.१) इति मुख्यप्राणलिङ्गा नाध्यात्मसम्बन्धभूमेति ेत् – न, उपासात्रैविध्यात् हेतो: उपासनात्रैविध्यमुपदेष्टुं तत्त्छब्देनाभिधानम् – निखिलकारणभूतस्य ब्रह्मणस्स्वरूपेणानुसन्धानम्, भोक्तृवर्गशरीरकत्वानुसन्धानं भोग्यभोगोपकरणशरीरकत्वानुसन्धानं ेति त्रिविधमनुसन्धानं उपदेष्टुमित्यर्थ:। तदिदं त्रिविधं ब्रह्मानुसन्धानं प्रकरणान्तरेष्वप्याश्रितम् सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१) आनन्दो ब्रह्म (तै.भृ.६.अनु) इत्यादिषु स्वरूपानुसन्धानम्; तत्सृष्ट्वा तदेवानुप्राविशत्, तदनुप्रविश्य, सत्याभवत्, निरुक्तं ानिरुक्तं , निलयनं ानिलयनं , विज्ञानं ाविज्ञानं , सत्यं ानृतं सत्यमभवत् (तै.अन.६.२) इत्यादिषु भोक्तृशरीरतया, भोग्यभोगोपकारणशरीरतया ानुसन्धानम्। इहापि प्रकरणे तत् त्रिविधमनुसन्धानं युज्यत एवेत्यर्थ:।

(विशिष्टोपासनपरतािह्नप्रदर्शनम्)

एतदुक्तं भवति – यत्र हिरण्यगर्भादिजीवविशेषाणां प्रकृत्याद्येतनविशेषाणां परमात्मासाधारण-धर्मयोग: तदभिधायिनां शब्दानां परमात्मवािशब्दैस्सामानाधिकरण्यं वा दृश्यते; तत्र परमात्मन: तत्तिदिद्विशेषान्तरात्मत्वानुसन्धानं प्रतिपिपादयिषितम् – इति।

अतोऽत्रेन्द्रप्राणशब्दनिर्दिष्टो जीवादर्थान्तरभूत: परमात्मैवेति  सिद्धम्॥ ३२॥

इति श्रीशारीरकमीमांसाभाष्ये इन्द्रप्राणाधिकरणम्॥११॥

इति श्रीभगवद्रामानुजविरिते शारीरकमीमांसाभाष्ये प्रथमस्याध्यायस्य प्रथम:पाद: ॥१॥

error: Content is protected !!