श्रीशारीरकमीमांसाभाष्ये अत्त्रधिकरणम् ॥२॥
(अधिकरणार्थः – सर्वजगत्संहाररूपम् अत्तृत्वम् परमात्मन एव, न जीवस्य)
(नाचिकेतविद्या कठ.उ.2)
(पूर्वाधिकरणान्तिमसूत्रेण अवान्तरसङ्गतिः)
यदि परमात्मा न भोक्ता, एवं तर्हि सर्वत्र भोक्तृतया प्रतीयमानो जीव एव स्यादित्याशङ्क्याह-
४१. अत्ता चराचरग्रहणात् ॥ १-२-९ ॥
(विषयवाक्यदर्शनम्)
कठवल्लीष्वाम्नायते यस्य ब्रह्म च क्षत्रं च उभे भवत ओदन:। मृत्युर्यस्योपसेचनं क इत्था वेद यत्र स: (कठ.१.२.२५) इति।
(अधिकरणाङ्गभूतः संशयः)
अत्रौदनोपसेचनसूचितोऽत्ता किं जीव एव, उत परमात्मेति सन्दिह्यते ॥
(पूर्वपक्षः)
किं युक्तम्? जीव इति। कुत: भोक्तृत्वस्य कर्मनिमित्तत्वाज्जीवस्यैव तत्सम्भवात्॥
(सिद्धान्तः)
अत्रोच्यते – अत्ता चराचरणग्रहणात् – अत्ता परमात्मैव। कुत:? चराचरग्रहणात् – चराचरस्य कृत्स्नस्यात्तृत्वं हि तस्यैव सम्भवति। न चेदं कर्मनिमित्तं भोक्तृत्वम्; अपि तु जगज्जन्मस्थितिलयहेतुभूतस्य परस्य ब्रह्मणो विष्णोस्संहर्तृत्वम्। सोऽध्वन: पारमाप्नोति तद्विष्णो: परमं पदम् (कठ.१.३.९) इत्यत्रैव दर्शनात्। तथा च मृत्त्युर्यस्योपसेचनम् (कठ.१.२.२५) इति वचनात्, ब्रह्म च क्षत्रं च (कठ.१.२.२५) इति कृत्स्नं चराचरं जगदिहादनीयौदनत्वेन गृह्यते। उपसेचनं हि नाम स्वयमद्यमानं सदन्यस्यादनहेतु:। अत उपसेचनत्वेन मृत्योरप्यद्यमानत्वात्तदुपसिच्यमानस्य कृत्स्नस्य ब्रह्मक्षत्रपूर्वकस्य जगतश्चराचरस्यादनमत्र विवक्षितमिति गम्यते। ईदृशं चादनमुपसंहार एव। तस्मादीदृशं जगदुपसंहारित्वरूपं भोक्तृत्वं परमात्मन एव ॥ ९॥
(अत्तृत्वस्य परमात्मगतत्वे प्राकरणिको हेतुः)
४२. प्रकरणाच्च ॥ १-२-१० ॥
प्रकरणञ्चेदं परस्यैव ब्रह्मण: – महान्तं विभुमात्मानं मत्वा धीरो न शोचति (कठ.१.२.२२), नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् (कठ.१.२.२३) इति हि प्रकृतम्। क इत्था वेद यत्र स: (कठ.१-२-२५) इत्यपि हि तत्प्रसादादृते तस्य दुरवबोधत्वमेव पूर्वप्रस्तुतं प्रत्यभिज्ञायते॥१०॥
(आनन्तरिकऋतपानश्रुत्या अत्तुः जीवत्वशङ्का)
अथ स्यात् – नायं ब्रह्मक्षत्रौदनसूचित: पुरुषोऽपहतपाप्मा परमात्मा; अनन्तरम् ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्ध्ये। छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेता: (कठ.१-३-१) इति कर्मफलभोक्तुरेव सद्वितीयस्याभिधानात्। द्वितीयश्च प्राणो बुद्धिर्वा स्यात्। ऋतपानं हि कर्मफलभोग एव; स च परमात्मनो न सम्भवति; बुद्धिप्राणयोस्तु भोक्तुर्जीवस्योपकरणभूतयोर्यथा कथञ्चित्पानेऽन्वयस्सम्भवतीति तयोरन्यतरेण सद्वितीयो जीव एव प्रतिपाद्यते, तदेकप्रकरणत्वात्पूर्वप्रस्तुतोऽत्ताऽपि स एव भवितुमर्हाति – इति ॥
(अत्तृत्वे जीवगतत्वशङ्कायाः समाधानम्)
तत्रोच्यते –
४३. गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ १-२-११ ॥
न प्रणजीवौ बुद्धिजीवौ वा गुहां प्रविष्टावृतं पिबन्तावित्युच्येते; अपि तु जीवपरमात्मानौ हि तथा व्यपदिश्येते। कुत:? तद्दर्शनात्। अस्मिन् प्रकरणे जीवपरयोरेव गुहाप्रवेशव्यपदेशो दृश्यते। परमात्मनस्तावत् तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्। अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति (कठ.१.२.१२) इति। जीवस्यापि या प्राणेन सम्भवत्यदितिर्देवतामयी। गुहां प्रविश्य तिष्ठन्ती या भूतेभिर्व्यजायत (कठ.२.४.७) इति। कर्मफलान्यत्तीत्यदितिर्जीव उच्यते। प्राणेन सम्भवति – प्राणेन सह वर्तते। देवतामयी- इन्द्रियाधीनभोगा। गुहां प्रविश्य तिष्ठन्ती – हृदयपुण्डरीकोदरवर्तिनी। भूतेभिर्व्यजायत – पृथिव्यादिभिर्भूतैस्सहिता देवादिरूपेण विविधा जायते। एवं च सति ऋतं पिबन्तौ (कठ.१.३.१) इति व्यपदेश: छत्रिणो गच्छन्ति इतिवत्प्रतिपत्तव्य:। यद्वा – प्रयोज्यप्रयोजकरूपेण पाने कर्तृत्वं जीवपरयोरुपपद्यते॥११॥
(अज्ञत्व-सर्वज्ञत्वरूपविशेषणयोः जीवपरमात्मज्ञापकत्वम्)
४४. विशेषणाच्च ॥ १-२-१२ ॥
अस्मिन् प्रकरणे जीवपरमात्मानावेवोपास्यत्वोपासकत्वप्राप्यत्वप्राप्तृत्वविशिष्टौ सर्वत्र प्रतिपाद्येते। तथाहि – ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमां शान्तिमत्यन्तमेति (कठ.१.१.१७) इति। ब्रह्मजज्ञो – जीव:, ब्रह्मणो जातत्वात् ज्ञत्वाच्च। तं देवमीड्यं विदित्वा जीवात्मानमुपासकं ब्रह्मात्मकत्वेनावगम्येत्यर्थ:। तथा, यस्सेतुरीजानानामक्षरं ब्रह्म यत्परम्। अभयं तितीर्षतां पारं नाचिकेतं शकेमहि (कठ.१.३.२) इत्युपास्य: परमात्मोच्यते। नाचिकेतम् – नाचिकेतस्य कर्मण: प्राप्यमित्यर्थ:। आत्मानं रथिनं विद्धि शरीरं रथमेव च (कठ.१.३.३) इत्यादिनोपासको जीव उच्यते। तथा विज्ञानसारथिर्यस्तु मन:प्रग्रहवान्नर:। सोऽध्वन: पारमाप्नोति तद्विष्णो: परमं पदम् (कठ.१.३.९) इति प्राप्यप्राप्तारावभिधीयेते जीवपरमात्मानौ। इहापि छायातपौ (कठ.१.३.१) इत्यज्ञत्वसर्वज्ञत्वाभ्यां तावेव विशिष्य व्यपदिश्येते॥
(प्रकरणस्य जीवपरत्वशङ्का)
अथ स्यात् – येयं प्रेते विचिकत्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके (कठ.१.१.२०) इति जीवस्वरूपयाथात्म्यप्रश्नोपक्रमात्सर्वमिदं प्रकरणं जीवपरमिति प्रतीयते – इति ॥
(जीवपरत्वशङ्कापरिहारः)
नैतदेवम्, न हि जीवस्य देहातिरक्तस्यास्तित्वनास्तित्वशङ्कायामयं प्रश्न: तथा सति पूर्ववरद्वयवरणानुपपत्ते:। तथा हि पितुस्सर्ववेदसदक्षणाक्रतुसमाप्तिवेलायां दीयमानदक्षिणावैगुण्येन क्रतुवैगुण्यं मन्यमानेन कुमारेण नचिकेतसा आस्तिकाग्रेसरेण स्वात्मदानेनापि पितु: क्रतुसाद्गुण्यमिच्छता कस्मै मां दास्यसि (कठ.१.२.४) इत्यसकृत्पितरं पृष्टवता स्वनिर्बन्धरुष्टपितृ-वचनात् मृत्युसदनं प्रविष्टेन स्वसदनात्प्रोषुषि यमे तददर्शनात्तत्र तिस्रो रात्रीरुपोषुषा स्वोपवासभीततत्प्रतिविधानप्रवृत्तमृत्युप्रदत्ते वरत्रये आस्तिक्यातिरेकात्प्रथमेन वरेण स्वात्मानं प्रति पितु: प्रसादो वृत:, एतच्च सर्वं देहातिरक्तात्मानमजानतो नोपपद्यते। द्वितीयेन च वरेणोत्तीर्णदेहात्मानुभाव्यफलसाधनभूताऽग्निविद्या वृता; तदपि देहातिरक्तात्मानभिज्ञस्य न सम्भवति। अतस्तृतीयेन वरेण यदिदं व्रियते येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीय: (कठ.१.१.२०) इति, अत्र परमपुरुषार्थरूप-ब्रह्मप्राप्तिलक्षणमोक्षयाथात्म्यविज्ञानाय तदुपायभूतपरमात्मोपासनपरावरात्मतत्वजिज्ञासयाऽयं प्रश्न: क्रियते। एवं च येयं प्रेते (कठ.१.१.२०) इति न शरीरवियोगमात्राभिप्रायम्,अपि तु सर्वबन्धविनिर्मोक्षाभिप्रायम्। यथा न प्रेत्य संज्ञाऽस्ति (बृ.४.४.१२) इति। अयमर्थ:- मोक्षाधिकृते मनुष्ये प्रेते सर्वबन्धविनिर्मुक्ते तत्स्वरूपविषया वादिविप्रतिपत्तिनिमित्ताऽस्तिनास्त्यात्मिका येयं विचिकत्सा, तदपनोदनाय तत्स्वरूपयाथात्म्यं त्वयाऽनुशिष्टोऽहं विद्यां – जानीयाम्- इति ॥
(मोक्षविषयिण्यो विप्रतिपत्तयः)
तथा हि बहुधा विप्रतिपद्यन्ते – 1. केचित् वित्तिमात्रस्याऽत्मन: स्वरूपोच्छित्तिलक्षणं मोक्षमाचक्षते। 2. अन्ये वित्तमात्रस्यैव सतोऽविद्यास्तमयम्। 3. अपरे – पाषाणकल्पस्याऽत्मनो ज्ञानाद्यशेषवैशेषिकगुणोच्छेदलक्षणं कैवल्यरूपम्। 4. अपरे तु – अपहतपाप्मानं परमात्मानमभ्युपगच्छन्त: तस्यैवोपाधिसंसर्गनिमित्तजीवभावस्योपाध्यपगमेन तद्भावलक्षणं मोक्षमातिष्ठन्ते। 5. त्रय्यन्तनिष्णातास्तु निखिलजगदेककारणस्याशेषहेयप्रत्यनीकानन्त-ज्ञानानन्दैकस्वरूपस्य स्वाभाविकानवधिकातिशयासङ्ख्येय-कल्याणगुणाकरस्य सकलेतरविलक्षणस्य सर्वात्मभूतस्य परस्य ब्रह्मणश्शरीरतया प्रकारभूतस्यानुकूलापरिच्छिन्नज्ञानस्वरूपस्य परमात्मानुभवैकरसस्य जीवस्यानादिकर्मरूपाविद्यातिरोहितस्वरूपस्याविद्योच्छेदपूर्वकस्वाभाविक-परमात्मानुभवमेव मोक्षमाचक्षते। तत्र मोक्षस्वरूपं तत्साधनं च त्वत्प्रसादाद्विद्यामिति नचिकेतसा पृष्टो मृत्युस्तस्यार्थस्य दुरवबोधत्वप्रदर्शनेन विविधभोगवितरणप्रलोभनेन चैनं परीक्ष्य योग्यतामभिज्ञाय परावरात्मतत्त्वविज्ञानं परमात्मोपासनं तत्पदप्राप्तिलक्षणं मोक्षं च तं दुर्दर्शं गूढमनुप्रविष्टम् (कठ.१.२.१२) इत्यारभ्य सोऽध्वन: पारमाप्नोति तद्विष्णो: परमं पदम् (कठ१.३.९) इत्यन्तेनोपदिश्य तदपेक्षितांश्च विशेषानुपदिदेशेति सर्वं समञ्जसम्। अत: परमात्मैवात्तेति सिद्धम्॥१२॥
इति श्रीशारीरिकमीमांसाश्रीभाष्ये अत्त्रधिकरणम्॥२॥