श्रीशारीरकमीमांसाभाष्ये दहराधिकरणम्॥५॥
(अधिकरणार्थः – दहराकाशशब्दवाच्यः परमात्मैव, न भूताकाशः, नापि प्रत्यगात्मा)
(दहरविद्या – छा.उ. 8-1)
७८. दहर उत्तरेभ्य: ॥ १–३–१३ ॥
(विषयवाक्यप्रदर्शनम्)
इदमामनन्ति छन्दोगा: अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासतिव्यम् (छां.८.१.१) इति।
(संशयाकारप्रदर्शनम्)
तत्र सन्देह: – किमसौ हृदय पुण्डरीकमध्यवर्ती दहराकाशो महाभूतविशेष:, उत प्रत्यगात्मा, अथ परमात्मा – इति।
(पूर्वपक्षः)
किं तावद्युक्तम्? महाभूतिविशेष इति। कुत😕 आकाशशब्दस्य भूताकाशे ब्रह्मणि च प्रसिद्धत्वेऽपि भूताकाशे प्रसिद्धिप्रकर्षात्। तस्मिन्यदन्तस्तदन्वेष्टव्यम् (छा.८.१.१) इत्यन्वेष्टव्यान्तरस्याधारतया प्रतीतेश्च।
(सिद्धान्तारम्भः)
इत्येवं प्राप्तेऽभिधीयते – दहर उत्तरेभ्य: – दहराकाश: परं ब्रह्म; कुत😕 उत्तरेभ्यो वाक्यगतेभ्यो हेतुभ्य:।
(सिद्धान्तार्थोपपादनम्)
एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपास: सत्यकामस्सत्यसङ्कल्प: (छां.८.१.५) इति निरुपाधिकात्मत्वमपहतपाप्मत्वादिकं सत्यकामत्वं सत्यसङ्कल्पत्वं चेति दहराकाशे श्रूयमाणा गुणा: दहराकाशं परं ब्रह्मेति ज्ञापयन्ति। अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति (छा.८.१.६) इत्यादिना यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते (छा.८.२.१०) इत्यन्तेन दहराकाशवेदिनस्सत्यसङ्कल्पत्वप्राप्तिश्चोच्यमाना दहराकाशं परं ब्रह्मेत्यवगमयति।
(आकाशयोरुपमानोपमेयभावः)
यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृादय आकाश: (छा.८.१.३) इत्युपमानोपमेयभावश्च दहराकाशस्य भूताकाशत्वे नोपपद्यते। हृदयावच्छेदनिबन्धन उपमानोपमेयभाव इति चेत् – तथा सति हृदयावच्छिन्नस्य द्यावापृथिव्यादिसर्वाश्रयत्वं नोपपद्यते।
(औपम्यानुपपत्तिशङ्का – परिहारौ)
ननु च दहराकाशस्य परमात्मत्वेऽपि बाह्याकाशोपमेयत्वं न सम्भवति ज्यायान्पृथिव्या ज्यायानन्तरिक्षात् (छा.३.१४.३) इत्यादौ सर्वस्माज्ज्यास्त्वश्रवणात् – नैवम्, दहराकाशस्य हृदयपुण्डरीकमध्यवर्तित्वप्राप्ताल्पत्वनिवृत्तिपरत्वादस्य वाक्यस्य; यथा अधिकजवेऽपि सवितरि इषुवद्गच्छति सविता इति वचनं गतिमान्द्यनिवृत्तिपरम्।
(दहरशब्दस्य परमात्मपरस्य आशङ्का-परिहारौ)
अथ स्यात् – एष आत्माऽपहतपाप्मा (छा.८.१.५) इत्यादिना दहराकाशो न निर्दिश्यते दहरोऽस्मिन्नन्तराकाश: तस्मिन्यदन्तस्तदन्वेष्टव्यम् (छा.८.१.१) इति दहराकाशान्तर्वर्तिन: ततोऽन्यस्यान्वेष्टव्यत्वेन प्रकृतत्वादिह एष आत्माऽपहतपाप्मा (छा.८.१.५) इति तस्यैवान्वेष्टव्यस्य निर्देष्टुं युक्तत्वात्; स्यादेतदेवम्, यदि श्रुतिरेव दहराकाशं तदन्तर्वर्तिनं च न व्यभाङ्क्ष्यत्; व्यभाङक्षीत्तु सा; तथाहि अथ यदिदमिस्मन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्त: तदन्वेष्टव्यम् (छा.८.१.१) इति ब्रह्मपुरशब्देनोपास्यतया सन्निहितपरब्रह्मण: पुरत्वेनोपासकशरीरं निर्दिश्य तन्मध्यवर्ति च तदवयवभूतं पुण्डरीकाकारमल्पपरिमाणं हृदयं परस्य ब्रह्मणो वेश्मतयाऽभिधाय सर्वज्ञं सर्वशक्तिमाश्रितवात्सल्यैकजलधि– मुपासकानुग्रहाय तस्मिन्वेश्मनि सन्निहितं सूक्ष्मतया ध्येयं दहराकाशशब्देन निर्दिश्य तदन्तर्वर्ति चापहतपाप्मत्वादिस्वभावतो निरस्तनिखिलहेयत्व सत्यकामत्वादिस्वाभाविकानवधिकातिशयकल्याणगुणजातं च ध्येयं तदन्वेष्टव्यम् (छा.८.१.१) इत्युपदिश्यते।
(अन्वेष्टव्यमुभयम्)
अत्र तदन्वेष्टव्यम् (छां.८.१.१) इति तच्छब्देन दहराकाशम्, तदन्तर्वर्तिगुणजातं च परामृश्य तदुभयमन्वेष्टव्यमित्युपदिश्यते; यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म (छां.८.१.१) इत्यनूद्य तस्मिन्दहरपुण्डरीकवेश्मनि यो दहराकाश:, यच्च तदन्तर्वर्तिगुणजातम्, तदुभयमन्वेष्टव्यमिति विधीयत इत्यर्थ:।
(गुणिनो गुणजातस्य चान्वेष्टव्यत्वे गमकचिन्ता)
दहराकाशशब्दनिर्दिष्टस्य परब्रह्मत्वं तस्मिन्यदन्त: (छां.८.१.१) इति निर्दिष्टस्य च तद्गुणत्वम्, तच्छब्देनोभयं परामृश्योभयस्याप्यन्वेष्टव्यतया विधानं च कथमवगम्यत इति चेत् –
(उक्तार्थे गमकप्रदर्शनम्)
तदवहितमनाश्शृणु – यावान्वायमाकाशस्तावानेषोऽन्तर्हृादय आकाश: (छां.८.१.३) इति दहराकाशस्यातिमहत्तामभिधाय उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि (छां.८.१.३) इति प्रकृतमेव दहराकाशं अस्मिन्निति निर्दिश्य, तस्य सर्वजगदाधारत्वमभिधाय यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्समाहितम् (छां.८.१.३) इति पुनरप्यस्मिन्निति तमेव दहराकाशं परामृश्य तस्मिन्नस्योपासकस्येहलोके यद्भोग्यजातमस्ति, यच्च मनोरथमात्रगोचरमिह नास्ति, सर्वं तद्भोग्यजातमस्मिन्दहराकाशे समाहितमिति निरतिशयभोग्यत्वं दहराकाशस्याभिधाय तस्य दहराकाशस्य देहावयवभूतहृदयान्तर्वर्तित्वेऽपि देहस्य जराप्रध्वांसादौ सत्यपि परमकारणतयाऽतिसूक्ष्मत्वेन निर्विकारत्वमुक्त्वा तत एव एतत्सत्यं ब्रह्मपुरम् (छा.८.१.५) इति तमेव दहराकाशं सत्यभूतं ब्रह्माख्यं पुरं निखिलजगदावासभूतमित्युपपाद्य अस्मिन्कामास्समाहिता: (छां.८.१.५) इति दहराकाशमस्मिन्निति निर्दिश्य काम्यभूतांश्च गुणान्कामा इति निर्दिश्य तेषां दहराकाशान्तर्वर्तित्वमुक्त्वा तदेव दहराकाशस्य काम्यभूतकल्याणगुणविशिष्टत्वं तस्याऽत्मत्वं च एष आत्माऽपहतपाप्मा (छां.८.१.५) इत्यादिना सत्यसङ्कल्प: (छां.८.१.५) इत्यन्तेन स्फुटीकृत्य यथा ह्येवेह प्रजा अन्वाविशन्ति (छां.८.१.५) इत्यारभ्य तेषां सर्वेषु लोकेष्वकामचारो भवति (छा.८–१–६) इत्यन्तेन तदिदं गुणाष्टकं तद्विशिष्टं दहराकाशशब्दनिर्दष्टमात्मानं चाविदुषामेतद्व्यतिरिक्तभोग्यसिद्धये च कर्म कुर्वतामन्तवत्फलावाप्तिं असत्यसङ्कल्पत्वं चाभिधाय अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति (छां.८.१.६) इत्यादिना दहराकाशशब्दनिर्दिष्टमात्मानं तदन्तर्वर्तिनश्च काम्यभूतानपहतपाप्मत्वादिकान् गुणान्विजानतामुदारगुणसागरस्य तस्य परमपुरुषस्य प्रसादादेव सर्वकामावाप्तिस्सत्यसङ्कल्पता चोच्यते।
(उभयस्यान्वेष्टव्यता निगमनम्)
अतो दहराकाश: परं ब्रह्म, तदन्तर्वर्ति चापहतपाप्मत्वादिकाम्यगुणजातम्, तदुभयमन्वेष्टव्यं विजिज्ञासतिव्यमिति चोच्यत इति निश्चीयते। तदेतद्वाक्यकारोऽपि स्पष्टयति तस्मिन्यदन्तरिति कामव्यपदेश: (वाक्यं) इत्यादिना। अत एतेभ्यो हेतुभ्यो दहराकाश: परमेव ब्रह्म॥१३॥
तश्च दहराकाश: परं ब्रह्म
७९. गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च ॥ १–३–१४ ॥
(सूत्रार्थविवरणम्)
तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमास्सर्वा: प्रजा अहरहर्गच्छ्न्त्य एतं ब्रह्मलोकं न विन्द्नन्ति अनृतेन हि प्रत्यूढा: (छां.८.३.२) इति एतमिति प्रकृतं दहराकाशं निर्दिश्य तत्राहरहस्सर्वेषां क्षेत्रज्ञानां गमनम्, गन्तव्यस्य तस्य दहराकाशस्य ब्रह्मलोकशब्दनिर्देशश्च दहराकाशस्य परब्रह्मतां गमयत:।
(गतिशब्दयोः परमात्मसाधकत्वोपपादनम्)
कथमनयोरस्य परब्रह्मत्वसाधकत्वमित्यत आह – तथाहि दृष्टम् – इति। परस्मिन्ब्रह्मणि सर्वेषां क्षेत्रज्ञानामहरहस्सुषुप्तिकाले गमनमन्यत्राभिधीयमानं दृष्टम् – एवमेव खलु सोम्येमास्सर्वा: प्रजास्सति सम्पद्य न विदुस्सति सम्पत्स्यामहे इति (छां.८.९.२) इति, सत आगम्य न विदुस्सत आगच्छामह इति (छां.८.९.२) इति च । तथा ब्रह्मलोकशब्दश्च परस्मिन्ब्रह्मणि दृष्ट: एष ब्रह्मलोक: सम्राडिति होवाच (बृ.६.३.३३) इति।
(अवशिष्टसूत्रखण्डार्थः)
मा भूदन्यत्र ब्रह्मणि गमनदर्शनम्; एतदेव तु दहाराकाशे सर्वेषां क्षेत्रज्ञानां प्रलयकाल इव निरस्तनिखिलदु:खानां सुषुप्तिकालेऽवस्थानं श्रूयमाणमस्य परब्रह्मत्वे पर्याप्तं लिङ्गम्; तथा ब्रह्मलोकशब्दश्च समानाधिकरणवृत्त्याऽस्मिन्दहाराकाशे प्रयुज्यमानोऽस्य ब्रह्मत्वे प्रयोगान्तरनिरपेक्षं पर्याप्तं लिङ्गमित्याह – लिङ्गं च – इति। निषादस्थपतिन्यायाच्च षष्ठीसमासात्समानाधिकरण-समासो न्याय्य:॥
(श्रुतेः प्रकारान्तरेण नयनम्)
अथवा अहरहर्गच्छन्त्य: (छा.८.३.२) इति न सुषुप्तिविषयं गमनमुच्यते; अपित्वन्तरात्मत्वेन सर्वदा वर्तमानस्य दहराकाशस्य परमपुरुषार्थभूतस्योपर्युपरि अहरहर्गच्छन्त्य: सर्वस्मिन्काले वर्तमाना: तमजानत्यस्तं न विन्दन्ति – न लभन्ते; यथा हिरण्यनिधिं निहितं तत्स्थानमजानानास्तदुपरि सर्वदा वर्तमाना अपि न लभन्ते, तद्वदित्यर्थ:।
(द्वितीयनयनरीत्याऽपि तदर्थस्य ब्रह्मत्वगमकता)
सेयमेवमन्तरात्मत्वेन स्थितस्य दहराकाशस्योपरि तन्नियमितानां सर्वासां प्रजानामजानतीनां सर्वदा गतिरस्य दहाराकाशस्य परब्रह्मतां गमयति। तथाह्यन्यत्र परस्य ब्रह्मणोऽन्तरात्मतयाऽवस्थितस्य स्वनियाम्याभिस्स्वस्मिन्वर्तमानाभि: प्रजाभिरवेदनं दृष्टम्। यथा अन्तर्यामिब्राह्मणे य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति (बृ.५.७.२२) इति, अदृष्टो द्रष्टा अश्रुतश्श्रोता (बृ.५.७.२३) इति च। मा भूदन्यत्र दर्शनम्; स्वयमेव त्वियं निधिदृष्टान्तावगतपरमपुरुषार्थभावस्यास्य हृदयस्थस्योपरि तदाधारतयाऽहरहस्सर्वदा सर्वासां प्रजानामजानतीनां गतिरस्य परब्रह्मत्वे पर्याप्तं लिङ्गम् ॥१४॥
इतश्च दहराकाशं परं ब्रह्म –
८०. धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धे: ॥ १–३–१५ ॥
(सूत्रार्थोपपादनम्)
अथ य आत्मा (छा.८.४.१) इति प्रकृतं दहराकाशं निर्दिश्य स सेतुर्विधृतिरेषां लोकानामसम्भेदाय (छां ८.४.१) इत्यस्मिन्जगद्विधरणं श्रूयमाणं दहराकाशस्य परब्रह्मतां गमयति; जगद्विधरणं हि परस्य ब्रह्मणो महिमा एष सर्वेश्वर एष सर्वभूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय (बृ.६.४.२२) इति, एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत: (बृह.५.८.९) इत्यादिभ्य:। स चायं तस्य परस्य ब्रह्मणो धृत्याख्यो महिमाऽस्मिन्दहराकाशे उपलभ्यते; अतो दहराकाश: परं ब्रह्म॥१५॥
८१. प्रसिद्धेश्च ॥ १–३–१६ ॥
(सूत्रार्थविवरणम्)
आकाशशब्दश्च परस्मिन्ब्रह्मणि प्रसिद्ध: को ह्येवाऽन्यात्क: प्राण्यात्। यदेष आकाश आनन्दो न स्यात् (तै.आन.७) सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते (छां.१.९.१) इत्यादिषु; अपहतपाप्मत्वादिगुणसनाथा प्रसिद्धिर्भूताकाशप्रसिद्धेर्बलीयसी इत्यभिप्राय:॥ १६॥
(सूत्रसङ्गतिः)
एवं तावद्दहराकाशस्य भूताकाशत्वं प्रतिक्षिप्तम्। अथेदानीं दहराकाशस्य प्रत्यगात्मत्वमाशङ्क्य निराकर्तुमुपक्रमते –
८२. इतरपरामर्शात्स इति चेन्नासम्भवात् ॥ १–३–१७ ॥
(सूत्रगताक्षेपभागनिषेधः)
यदुक्तं वाक्यशेषवशाद्दहराकाश: परं ब्रह्मेति, तदयुक्तम्, वाक्यशेषे परस्मादितरस्य जीवस्यैव साक्षात्परामर्शात् अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते एष आत्मेति होवाच एतदमृतमभयमेतद्ब्रह्म (छां.८.३.४) इति। यद्यपि दहरोऽस्मिन्नन्तर आकाश: (छां.८.१.१) इति हृदयपुण्डरीकमध्यवर्तितयोपदिष्टस्य आकाशस्योपमानोपमेयभावाद्यसम्भवात् भूताकाशत्वं न सम्भवति, तथापि वाक्यशेषवशात्प्रत्यगात्मत्वं युक्तमाश्रयितुम्। आकाशशब्दोऽपि प्रकाशादियोगाज्जीव एव वर्तिष्यत इति चेत् –
(समाधानार्थविवृतिः)
अत्रोत्तरं – नासम्भवात् – इति। नायं जीव:; नह्यपहतपाप्मत्वादयो गुणा जीवे सम्भवन्ति ॥१७॥
८३. उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ १–३–१८ ॥
(सूत्रगतचेदन्तार्थविवरणम्)
उत्तरात् – प्रजापतिवाक्यात्, जीवस्यैवापहतपाप्मत्वादिगुणयोगो निश्चीयत इति चेत् – एतदुक्तं भवति – प्रजापतिवाक्यं जीवपरमेव, तथाहि य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पस्सोऽन्वेष्टव्यस्स विजिज्ञासिव्यस्स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानाति (छां.८.७.१) इति प्रजापतिवचनमैतिह्यरूपेणोपश्रुत्यान्वेष्टव्यात्मस्वरूपजिज्ञासया प्रजापतिमुपसेदुषे मघवते प्रजापति: जागरितस्वप्नसुषुप्त्यवस्थं जीवात्मानं सशरीरं क्रमेण शुश्रूषुयोग्यतापरीचिक्षिषयोपिदश्य तत्रतत्र भोग्यमपश्यते परिशुद्धात्मस्वरूपोपदेशयोग्याय तस्मै मघवते मघवन्मर्त्यं वा इदं शरीरमात्तं मृत्युना तदस्यामृतस्य अशरीरस्यात्मनोऽधिष्ठानम् (छां.८.१२.१) इति शरीरस्य अधिष्ठानतां आत्मनश्चाधिष्ठातृतां अशरीरस्य च तस्यामृतत्वस्वरूपतां चोक्त्वा न ह वै सशरीरस्य सत: प्रियाप्रिययोरपहतरस्ति। अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत: (छां.८.१२.१) इति कर्मारब्धशरीरयोगिन: तदनुगुणसुखदु:खभागित्वरूपानर्थं तद्विमोक्षे च तदभावमभिधाय एवमेवैष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते (छां.८.१२.२) इति जीवात्मन: स्वरूपमेव शरीरवियुक्तं उपदिदेश । स उत्तम: पुरुष: स तत्र पर्येति जक्षत्क्रीडन्रममाण: स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरम् (छां.८.१२.३) इति प्राप्यस्य परस्य ज्योतिष: पुरुषोत्तमत्वम्, निवृत्ततिरोधानस्य परं ज्योतिरुपसम्पन्नस्य प्रत्यगात्मनो ब्रह्मलोके यथेष्टभोगावाप्तिं, प्रियाप्रियवियुक्तकर्मनिमित्तशरीराद्यपुरुषार्थाननुसन्धानं चाभिधाय स यथा प्रयोग्य आचरणे युक्त एवमस्मिन् शरीरे प्राणो युक्त: (छा.८.१२.३) इति यथोक्तस्वरूपस्यैव संसारदशायां कर्मतन्त्रं शरीरयोगं युग्यशकटयोगदृष्टान्तेनाभिधाय अथ यत्रैतदाकाशमनुविषण्णं चक्षुस्स चाक्षुष: पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति स आत्माऽभिव्याहाराय वागथ यो वेदेदं शृणवानीति स आत्मा श्रवणाय श्रोत्रम्। अथ यो वेदेदं मन्वानीति स आत्मा मनोऽस्य दिव्यं चक्षु: (छा.८.१२.४,५) इति चक्षुरादीनां करणत्वं रूपादीनां ज्ञेयत्वमस्य च ज्ञातृत्वं प्रदर्श्य तत एव शरीरेन्द्रियेभ्योऽस्य व्यतिरेकमुपपाद्य स वा एष एतेन दिव्येन चक्षुषा मनसैतान्कामान्पश्यन्रमते य एते ब्रह्मलोके (छा.८.१२.६) इति तस्यैव विधूतकर्मनिमित्तशरीरेन्द्रियस्य मनश्शब्दाभिहितेन दिव्येन स्वाभाविकेन ज्ञानेन सर्वकामानुभवमुक्त्वा तं वा एतं देवा आत्मानमुपासते तस्मात्तेषां सर्वे च लोका आप्तास्सर्वे च कामा: (छां.८.१२.६) इत्येवंविधमात्मानं ज्ञानिनो जानन्तीत्यभिधाय सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच (छां.८.१२.६) इत्येवंविधमात्मानं विदुषस्सर्वलोकसर्वकामावाप्त्युपलक्षितं ब्रह्मानुभवं फलमभिधायोपसंहृतम् ।
(दहराकाशस्य परिशुद्धजीवस्वरूपत्वरूपत्वाक्षेपोपसंहारः)
अतस्तत्रापहतपाप्मत्वादिगुणको ज्ञातव्यतया प्रक्रान्तो जीव एवेत्यवगतम्। अतो जीवस्यापहतपाप्मत्वादयः सम्भवन्ति। अतो दहरवाक्यशेषे श्रूयमाणस्य जीवस्यापहतपाप्मत्वादिगुणसम्भवात्स एव दहराकाश इति निश्चीयते – इति चेत् इति॥
(आक्षेपपरिहारार्थभागार्थविवृतिः)
तत्राह – आविर्भूतस्वरूपस्तु इति । पूर्वमनृततिरोहितापहतपाप्मत्वादि गुणकस्वरूप: पश्चाद्विमुक्तकर्मबन्धश्शरीरात्समुत्थित: परं ज्योतिरुपसम्पन्न आविर्भूतस्वरूपस्सन् अपहतपाप्म-त्वादिगुणविशिष्टस्तत्र प्रजापतिवाक्येऽभिधीयते; दहरवाक्ये त्वतिरोहितस्वभावापहतपाप्मत्वादि-विशिष्ट एव दहराकाश: प्रतीयते। आविर्भूतस्वरूपस्यापि जीवस्यासम्भावनीयाः सेतुत्वसर्वलोक-विधरणत्वादय: सत्यशब्दनिर्वचनावगतं चेतनाचेतनयो: नियन्तृत्वं दहराकाशस्य परब्रह्मतां साधयन्ति। सेतुत्व–सर्वलोकविधरणत्वादय आविर्भूतस्वरूपस्यापि न सम्भवन्तीति जगद्व्यापारवर्जम् (शारी.४.४.१७) इत्यत्रोपपादियष्याम:॥१८॥
(उत्तरसूत्रावतारिणी शङ्का)
यद्येवम्, दहरवाक्ये अथ य एष सम्प्रसाद: (छा.८.३.४) इत्यादिना जीवप्रस्ताव: किमर्थ: – इति चेत् – तत्राह –
८४. अन्यार्थश्च परामर्श: ॥ १–३–१९ ॥
(दहरवाक्यप्रजापतिवाक्ययोः जीवपरामर्शोपयोगः)
दहराकाशस्यैवापहतपाप्मत्वजगद्विधरणत्वादिवन्मुक्तस्य तदुपसम्पत्त्याऽपहतपाप्मत्वादि-कल्याण–गुणविशिष्टस्वाभाविकरूपप्राप्तिकथनेन तद्धेतुत्वरूपं परमपुरुषासाधारणं गुणमुपदेष्टुं प्रजापतिवाक्योक्तस्य जीवस्यात्र परामर्श:; प्रजापतिवाक्ये च मुक्तात्मस्वरूपयाथात्म्यविज्ञानं दहरविद्योपयोगितयोक्तम्; ब्रह्मप्रेप्सोर्हि जीवात्मनस्स्वस्वरूपं च ज्ञातव्यमेव; स्वयमपि कल्याणगुण एव सन्ननवधिकातिशयासंख्येयकल्याणगुणगणं परं ब्रह्मानुभविष्यतीति ब्रह्मोपासनफलान्तर्गतत्वात्स्वरूपयाथात्म्यविज्ञानस्य। सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् (छा.८.१२.६) स तत्र पर्येति जक्षत्क्रीडन् (छा.८.१२.३) इत्यादिकं प्रजापतिवाक्ये कीर्त्यमानं फलमपि दहरविद्याफलमेव॥१९॥
८५. अल्पश्रुतेरिति चेत्तदुक्तम् ॥ १–३–२० ॥
(सूत्रार्थविवृतिः)
दहरोऽस्मिन् (छा.८.१.१) इत्यल्पपरिमाणश्रुतिराराग्रोपमितस्य जीवस्यैवोपपद्यते, न तु सर्वस्माज्ज्यायसो ब्रह्मण इति चेत् – तत्र यदुत्तरं वक्तव्यम्, तत्पूर्वमेवोक्तं निचाय्यत्वादेवम् (शारी.१.२.७) इत्यनेन। अतो दहराकाशोऽनाघ्राताविद्याद्यशेषदोषगन्ध: स्वाभाविकनिरतिशय–ज्ञानबलैश्वर्यवीर्यशक्ति–तेज:प्रभृत्यपरिमितोदारगुणसागर: पुरुषोत्तम एव। प्रजापतिवाक्यनिर्दिष्टस्तु घ्रन्ति त्वेवैवं विच्छादयन्ति (छा.८.१०.२) इत्येवमादिभिरवगतकर्मनिमित्तदेहपरिग्रह: पश्चात् परञ्ज्योतिरुपसम्पद्याऽऽविर्भूतापहतपाप्मत्वादिगुणस्वरूप इति न दहराकाश:॥ २०॥
इतश्चैतदेवम्–
८६. अनुकृतेस्तस्य च ॥ १–३–२ ॥
(सूत्रार्थोपपादनम्)
तस्य दहराकाशस्य परस्य ब्रह्मण: अनुकारात् – अयमपहतपाप्मत्वादिगुणको विमुक्तबन्ध: प्रत्यगात्मा न दहराकाश:। तदनुकार: – तत्साम्यम्। तथाहि प्रत्यगात्मनो विमुक्तस्य परब्रह्मानुकार: श्रूयते यदा पश्य: पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्। तदा विद्वान् पुण्यपापे विधूय निरञ्जन: परमं साम्यमुपौति (छा.३.१.३) इति । अतोऽनुकर्ता प्रजापतिवाक्यनिर्दिष्ट:। अनुकार्यं ब्रह्म दहराकाश:॥२१॥
८७. अपि स्मर्यते ॥ १–३–२२ ॥
(अनुकरणस्य स्मृतिसिद्धत्वोपपादनम्)
संसारिणोऽपि मुक्तावस्थायां परमसाम्यापत्तिलक्षण: परब्रह्मानुकार: स्मर्यते इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता:। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च (भ.गी.१४.२) इति॥
(परोक्ताधिकरणान्तरत्वानौचित्यम्)
केचित् – अनुकृतेस्तस्य च, अपि स्मर्यते इति सूत्रद्वयमधिकरणान्तरं तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति (मु.२.२.१०) इत्यस्याश्श्रुते: परब्रह्मपरत्वनिर्णयाय प्रवृत्तं वदन्ति। तत्तु अदृश्यत्वादिगुणको धर्मोक्ते: (ब्र.सू.१.२.२१) द्युभ्वाद्यायतनं स्वशब्दात् (ब्र.सू.१.३.१) इत्यधिकरणद्वयेन तस्य प्रकरणस्य परब्रह्मविषयत्वप्रतिपादनात् ज्योतिश्चरणाभिधानात् (ब्र.सू.१.२.२५) इत्यादिषु परस्य ब्रह्मणो भारूपत्वावगतेश्च पूर्वपक्षानुत्थानादयुक्तम्; सूत्राक्षर वैरूप्यं च ॥२२॥
इति श्रीशारीरकमीमांसाभाष्ये दहराधिकरणम्॥ ५॥