॥श्रीशारीरकमीमांसाभाष्ये प्रमिताधिकरणम्॥६॥
(अधिकरणार्थः – अङ्गुष्टपरिमाणपरिमितत्वेन श्रुत्युक्तः परमात्मैव, न कर्मवश्यो जीवः)
(अङ्गुष्टप्रमितविद्या – नाचिकेतविद्या वा कठ.उ. 4-12))
८८. शब्दादेव प्रमित: ॥ १–३–२३ ॥
(विषयवाक्यप्रदर्शनम्)
कठवल्लीषु श्रूयते अङ्गुष्ठमात्र: पुरुषो मध्य आत्मनि तिष्ठति। ईशानो भूतभव्यस्य न ततो विजुगुप्सते। एतद्वैतत् (कठ.२.४.१२) अङ्गुष्ठमात्र: पुरुषो ज्योतिरिवाधूमक:। ईशानो भूतभव्यस्य स एवाद्य स उ श्व:। एतद्वैतत् (कठ.२.४.१३) अङ्गुष्ठमात्र: पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्ट:। तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवैषीकां धैर्येण। तं विद्याच्छुक्रममृतम् (कठ.२६.१७) इति।
(संशयाकारः)
तत्र सन्दिह्यते – किमयमङ्गुष्ठमात्रप्रमित: प्रत्यगात्मा, उत परमात्मा इति।
(सयुक्तिकः पूर्वः पक्षः)
किं युक्तम्? प्रत्यगात्मेति। कुत😕 जीवस्यान्यत्राङ्गुष्ठमात्रत्वश्रुते: प्राणाधिपस्सञ्चरति स्वकर्मभि:। अङ्गुष्ठमात्रो रवितुल्यरूप: सङ्कल्पाहङ्कारसमन्वितो य: (श्वे.५.८.७) इति। नचान्यत्रोपासनार्थतयाऽपि परमात्मनोऽङ्गुष्ठमात्रत्वं श्रूयते। एवं निश्चिते जीवत्वे ईशानत्वं शरीरेन्द्रियभोग्यभोगोपकरणापेक्षयाऽपि भविष्यति॥:
(सिद्धान्तारम्भः)
इति प्राप्ते ब्रूम: – शब्दादेव प्रमित: अङ्गुष्ठप्रमित: परमात्मा; कुत😕 ईशानो भूतभव्यस्य (कठ.२.४.१३) इति शब्दादेव; न च भूतभव्यस्य सर्वस्येशितृत्वं कर्मपरवशस्य जीवस्योपपद्यते॥२३॥
(उत्तरसूत्रार्थशङ्का)
कथं तर्हि परमात्मनोऽङ्गुष्ठमात्रत्वमित्यत्राह –
८९. हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ १–३–२४ ॥
(परमात्मनः अङ्गुष्टप्रमिततानिदानम्)
परमात्मन उपासनार्थमुपासकहृदये वर्तमानत्वादुपासकहृदयस्याङ्गुष्ठप्रमाणत्वात्तदपेक्षयेदं अङ्गुष्ठप्रमितत्वमुपपद्यते, जीवस्याप्यङ्गुष्ठप्रमितत्वं हृदयान्तर्वर्तित्वात्तदपेक्षमेव; तस्याराग्रमात्रत्व-श्रुते:। मनुष्याणामेवोपासकत्वसम्भावनाया शास्त्रस्य मनुष्याधिकारत्वान्मनुष्य-हृद्यस्य च तत्तदङ्गुष्ठप्रमितत्वात्खरतुरगभुजगादीनामनङ्गुष्ठप्रमितत्वेऽपि न कश्चिद्दोष: । स्थितं तावदुत्तरत्र समापयिष्यते॥२४॥
इति श्रीशारीरिकमीमांसाभाष्ये प्रमिताधिकरणम्॥६॥