श्रीशारीरकमीमांसाभाष्ये एतद्गर्भे देवताधिकरणम्॥७॥
(अधिकरणार्थः – श्रुत्युक्तब्रह्मोपासनाधिकारः देवानामप्यस्त्येव)
(विद्यासामान्यसम्बन्धि)
९०. तदुपर्यपि बादरायणस्सम्भवात् ॥ १–३–२५ ॥
(विषयसंशययोः प्रदर्शनम्)
परस्य ब्रह्मणोऽङ्गुष्ठप्रमितत्वोपपत्तये मनुष्याधिकारं ब्रह्मोपासनशास्त्रमित्युक्तम्। तत्प्रसङ्गेनेदानीं ब्रह्मविद्यायां देवादीनामप्यधिकारोऽस्ति नास्तीति विचार्यते।
(पूर्वपक्षः सयुक्तिकः)
किं तावद्युक्तम्? नास्ति देवादीनामधिकार इति। कुत😕 सामर्थ्याभावात् । न ह्यशरीराणां देवादीनां विवेकविमोकादिसाधनसप्तकानुगृहीत–ब्रह्मोपासनोपसंहारसामर्थ्यमस्ति। न च देवादीनां सशरीरत्वे प्रमाणमुपलभामहे।
(देवादीनां विग्रहसम्बन्धस्य प्रमाणतोऽसिद्धिः)
यद्यपि परिनिष्पन्नेऽपि वस्तुनि व्युत्पत्तिसम्भावनया वेदान्तवाक्यानि परे ब्रह्मणि प्रमाणभावमनुभवन्ति; तथापि देवादीनां विग्रहवत्त्वप्रतिपादनपरं न किञ्चिदपि वाक्यमुपलभ्यते। मन्त्रार्थवादास्तु कर्मविधिशेषतयाऽन्यपरत्वान्न देवादिविग्रहसाधने प्रभवन्ति। कर्मविधयश्च स्वापेक्षितोद्देश्यकारकत्वातिरेकि देवतागतं किमपि न साधयन्ति। अत एव तासामर्थित्वमपि न सम्भवति। अतस्सामर्थ्यार्थित्वयोरभावाद्देवादीनामनधिकार इति॥
(सिद्धान्तारम्भः)
एवं प्राप्ते प्रचक्ष्महे – तदुपर्यपि बादरायणस्सम्भवात् – तदुपर्यपि – तत् ब्रह्मोपासनम्, उपरि – देवादिष्वपि, सम्भवतीति भगवान्बादरायणो मन्यते, तेषामर्थित्वसामर्थ्ययोस्सम्भवात्। अर्थित्वं तावदाध्यात्मिकादिदुर्विषहदु:खाभितापात् परस्मिन्ब्रह्मणि च निरस्तनिखिलदोषगन्धेऽनवधिकातिशय – असङ्ख्येयकल्याणगुणगणे निरतिशयभोग्यत्वादिज्ञानाच्च सम्भवति। सामर्थ्यमपि पटुतरदेहेन्द्रियादिमत्तया सम्भवति।
(दिवादीनां विग्रहादिमत्तायाः प्रामाणिकता)
देहेन्द्रियादिमत्त्वं च ब्रह्मादीनां सकलोपनिषत्सु सृष्टिप्रकरणेषूपासनप्रकरणेषु च श्रूयते। तथाहि सदेव सोम्येदमग्र आसीत् (छा.६.२.१), तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत (छां.६.२.३) इत्यारभ्य सर्वमचेतनं तेजोबन्नप्रमुखावस्थाविशेषवद्व्याकृत्य अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि (छा.६.३.२) इति सङ्कल्प्य ब्रह्मादिस्थावरान्तं चतुर्विधं भूतजातं तत्तत्कर्मोचितशरीरं तदुचितनामभाक् चायमकरोदित्युक्तम्। एवं सर्वत्र सृष्टिवाक्येषु देवतिर्यङ्मनुष्यस्थावरात्मना चतुर्विधा सृष्टिराम्नायते। देवादिभेदश्च तत्तत्कर्मानुगुणब्रह्मलोकप्रभृतिचतुर्दशलोकस्थफलभोगयोग्यदेहेन्द्रियादि– योगायत्त:, आत्मनां स्वतो देवादित्वाभावात्।
(विग्रहादिमत्त्वे उपष्टम्भकम्)
तथा तद्धोभये देवासुरा अनुबुबुधिरे ते होचु: …. इन्द्रो ह वै देवानामभिप्रवव्राज, विरोचनोऽसुराणां तौ हासंविदानावेव समित्पाणी प्रजापतिसकाशं आजग्मतु: (छा.८.७.२) तौ ह द्वात्रिंशतं वर्षाणि ब्रह्मचर्यमूषतु: तौ ह प्रजापतिरुवाच (छां.८.७.३) इत्यादिना स्पष्टमेव शरीरेन्द्रियवत्त्वं देवादीनां प्रतीयते। कर्मविधिशेषभूतमन्त्रार्थवादेष्वपि वज्रहस्त: पुरन्दर: (तै.अष्ट.२.६.७.३४), तेनेन्द्रो वज्रमुदयच्छत् (तै.काण्ड.२.४.१२) इत्यादिभि: प्रतीयमानं विग्रहादिमत्त्वं प्रमाणान्तराविरुद्धं तत्प्रमेयमेव।
(आख्यायिकादीनां अन्यपरत्वशङ्का, तत्परिहारश्च)
न चानुष्ठेयार्थप्रकाशनस्तुतिपरत्वाभ्यां प्रतीयमानार्थान्तराविवक्षा शक्यते वक्तुम्, स्तुत्याद्युपयोगित्वात्तेन विना स्तुत्याद्यनुपपत्तेश्च। गुणकथनेन हि स्तुतित्वम्। गुणानामसद्भावे स्तुतित्वमेव हीयेत। न चासता गुणेन कथितेन प्ररोचना जायते। अत: कर्म प्ररोचयन्तो गुणसद्भावं बोधयन्त्येवार्थवादा:।
मन्त्राश्च कर्मसु विनियुक्तास्तत्रतत्र किञ्चित्करत्वायानुष्ठेयमर्थं प्रकाशयन्तो देवतादिगतिविग्रहादिगुणविशेषमभिदधत एव तत्र किञ्चित्कुर्वन्ति, अन्यथेन्द्रादिस्मृत्यनुपपत्ते:। न च निर्विशेषा देवता धियमधिरोहति। तत्र प्रमाणान्तराप्राप्तान्गुणान् स्वयमेव बोधयित्वा तै: कर्म प्ररोचयन्ति; गुणविशिष्टं वा प्रकाशयन्ति; प्राप्तांश्चानूद्य तै: प्ररोचनप्रकाशने कुर्वन्ति; विरुद्धत्वे तु तद्वाचिभिश्शब्दैरविरुद्धान्गुणान् लक्षयित्वा कुर्वन्ति।
(कर्मविध्यादीनां देवतैश्वर्यपरत्वस्यावर्जनीयता)
कर्मविधेश्च देवताया ऐश्वर्यमपेक्षितमेव। कामिन: कर्तव्यतया कर्म विधीयमानं स्वयं क्षणप्रध्वंसि कालान्तरभाविन: फलस्य स्वर्गादेस्साधकमपेक्षते। मन्त्रार्थवादयोश्च वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति (तै.यजु.२.१.१.१) यदनेन हविषाऽऽशास्ते तदश्यात्तदृध्यात्तदस्मै देवा राधन्ताम् (तै.अष्ट.प्रश्न.२) इत्यादिषु देवताया: कर्मणाऽऽराधिताया: फलदायित्वं तदनुगुणं चैश्वर्यं प्रतीयमानमपेक्षितत्वेन वाक्यार्थे समन्वीयते। देवपूजाभिधायिनो यजिधातोश्च यागाख्यं कर्म स्वाराध्यदेवताप्रधानं प्रतीयते।
(मीमांसकोक्तस्य अपूर्वस्य अकिञ्चित्करता)
तदेवं कृत्स्नवाक्यपर्यालोचनया वाक्यादेव विध्यपेक्षितं सर्वमवगतमिति नापूर्वादिकं व्युत्पत्तिसमयानवगतं कर्मविधिष्वभिधेयतया कल्प्यतया वाऽऽश्रयितव्यम्।
तथा सङ्कीर्णब्राह्मणमन्त्रार्थवादमूलेषु धर्मशास्त्रेतिहासपुराणेषु ब्रह्मादीनां देवासुरप्रभृतीनां च देहेन्द्रियादयस्स्वभावभेदा: स्थानानि, भोगा:, कृत्यानि चेत्येवमादयस्सुव्यक्ता: प्रतिपाद्यन्ते। अतो विग्रहादिमत्त्वाद्देवानामप्यधिकारोऽस्त्येव॥२५॥
९१. विरोध: कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥ १–३–२६ ॥
(चेदन्तार्थस्य विरोधाक्षेपस्य उपपादनम्)
देवादीनां विग्रहादिमत्त्वाभ्युपगमे कर्मणि विरोध: प्रसज्यते, बहुषु यागेषु युगपदेकस्येन्द्रस्य विग्रहवत्त्वे अग्निमग्न आवह (तै.यजु.अष्ट.३.५) इन्द्र आगच्छ हरिव आगच्छ, (तै.यजु.अरुण प्रश्न.१.१२) इत्यादिना आहूतस्य तस्य सन्निधानानुपपत्ते:। दर्शयति चाग्न्यादीनां तत्र तत्रागमनं कस्य वाह देवा यज्ञमागच्छन्ति कस्य वा न बहूनां यजमानानां यो वै देवता: पूर्व: परिगृह्णाति स एना: श्वो भूते यजते (तै.यजु.कां.१.६.७.२१) इति। अतो विग्रहादिमत्त्वे कर्मणि विरोध: प्रसज्यत इति चेत्,
(प्राप्तस्य विरोधस्य परिहारः)
तन्न – अनेकप्रतिपत्तेर्दर्शनात् दृश्यते हि सौभरिप्रभृतीनां शक्तिमतां युगपदनेक-शरीरप्रतिपत्ति:॥
९२. शब्द इति चेन्नात: प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥ १–३–२७ ॥
(प्रकारान्तरेण विरोधप्रदर्शनम्)
विरोध इति वर्तते। मा भूत्कर्मणि विरोधोऽनेकशरीरप्रतिपपत्ते:। शब्दे तु वैदिके विरोध: प्रसज्यते, अनित्यार्थसंयोगात्। विग्रहवत्त्वे हि सावयवत्वेनेन्द्रादेरर्थस्यानित्यत्वमनिवार्यम्। ततो देवदत्तादिशब्दवदिन्द्राद्यर्थजन्मन: प्राग्विनाशादूर्ध्वं चेन्द्रादिशब्दानां वैदिकानामर्थशून्यत्वमनित्यत्वं वा वेदस्य स्यादिति चेत् –
(विरोधपरिहारः)
तन्न, अत: प्रभवात् अस्मादिन्द्रादिशब्दादेव पुन: पुनरिन्द्राद्यर्थस्य प्रभवात्।
(जगत्सृष्टिकार्ये वेदोपयोगप्रकारः)
एतदुक्तं भवति – न हि देवदत्तादिशब्दवदिन्द्रादिशब्दा वैदिका व्यक्तिविशेषमात्रे सङ्केतपूर्वका: प्रवृत्ता:; अपि तु स्वभावत एव गवादिशब्दवदाकृतिविशेषवाचित्वेन। ततश्चैकस्यां इन्द्रव्यक्तौ विनष्टायामत एव वैदिकादिन्द्रशब्दान्मनसि विपरिवर्तमानात् अवगततद्वाच्यभूत -इन्द्राद्यर्थाकारो धाता तदाकारमेवापरमिन्द्रं सृजति; यथा कुलालो घटशब्दान्मनसि विपरिवर्तमानात्तदाकारमेव घटम् – इति।
(एतादृशार्थावगतिनिदानम्)
कथमिदमवगम्यते? प्रत्यक्षानुमानाभ्यां – श्रुतिस्मृतिभ्यामित्यर्थ:। श्रुतिस्तावत् वेदेन रूपे व्याकरोत्सतासती प्रजापति: (तै.अष्ट.२.६.२.७) इति; तथा स भूरिति व्याहरत् स भूमिमसृजत स भुव इति व्याहरत् सोऽन्तरिक्षमसृजत (तै.अष्ठ.२.२.४.२२) इत्यादि। वाचकशब्दपूर्वकं तत्तदर्थसंस्थानं स्मरन् तत्तत्संस्थानविशष्टं तं तमर्थं सृष्टवानित्यर्थ:। स्मृतिरपि अनादिनिधना ह्येषा वागुत्सृष्टा स्वयंभुवा। आदौ वेदमयी दिव्या यतस्सर्वा: प्रसूतय: (मनु.स्मृ.१.२१) इति; सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक् । वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे इति। संस्था: – संस्थानानि रूपाणीति यावत्; तथा नामरूपं च भूतानां कृत्यानां च प्रपञ्चनम्॥ वेदशब्देन एवादौ देवादीनां चकार स: (वि.पु.१.५.६३) इति। अतो देवादीनां विग्रहवत्त्वेऽपि वैदिकशब्दानामानर्थक्यं, वेदस्यादिमत्त्वं च न प्रसज्यते॥२७॥
९३. अत एव च नित्यत्वम् ॥ १–३–२८ ॥
(वेदनित्यत्वोपपादनम्)
यत एवेन्द्रवसिष्ठादिशब्दानां देवर्षिवाचिनां तत्तदाकारवाचित्वं, तत्तच्छब्देन तत्तदर्थस्मृतिपूर्विका च तत्तदर्थसृष्टि:; तत एव मन्त्रकृतो वृणीते (आप.श्रौ.सू.२.१६.६), नम ऋृषिभ्यो मन्त्रकृद्भ्य: (तै.आर.७.१.१), अयं सो अग्निरिति विश्वामित्रस्य सूक्तं भवति (तै.यजु.कां५.२.३.३) इत्यादिभिर्वसिष्ठादीनां मन्त्रकृत्त्वकाण्डकृत्त्वऋषित्वादौ प्रतीयमानेऽपि वेदस्य नित्यत्वमुपपद्यते।
(ऋषीणां मन्त्रकृत्त्वोपपादनम्)
एभिरेव मन्त्रकृतो वृणीते (आप.श्रौ.सू.२.१६.६) इत्यादिभिर्वेदशब्दैस्तत्तत्काण्डसूक्तमन्त्रकृतां ऋषीणामाकृतिशक्त्यादिकं परामृश्य तत्तदाकारान् तत्तच्छाक्तियुक्तांश्च सृष्ट्वा प्रजापतिस्तानेव तत्तन्मन्त्रादिकरणे नियुङ्क्ते। तेऽपि प्रजापतिना आहतशक्तयस्तत्तदनुगुणं तपस्तप्त्वा नित्यसिद्धान्पूर्वपूर्ववसिष्ठादिदृष्टान् तानेव मन्त्रादीननधीत्यैव स्वरतो वर्णतश्चास्खलितान्पश्यन्ति। अतश्च वेदानां नित्यत्वमेषां च मन्त्रकृत्त्वमुपपद्यते॥२८॥
(प्राकृतप्रलयान्तरसृष्ट्यनुपपत्त्या आक्षेपः)
अथ स्यात् – नैमित्तिकप्रलयादिष्विन्द्राद्युत्पत्तौ वेदशब्देभ्य: पूर्वपूर्वेन्द्रादिस्मरणेन प्रजापतिना देवादिसृष्टिरुपपद्यतां नाम; प्राकृतप्रलये तु स्रष्टु: प्रजापतेर्भूताद्यहङ्कारपरिणामशब्दस्य च विनष्टत्वात्कथं प्रजापतेश्शब्दपूर्विका सृष्टिरुपपद्यते? कथन्तरां विनष्टस्य वेदस्य नित्यत्वम्? अतो वेदनित्यत्ववादिना देवादीनां विग्रहवत्त्वाभ्युपगमेऽपि लोकव्यवहारस्य प्रवाहानादिताऽऽश्रयणीयेति।
(उक्तानुपपत्तिपरिहारः)
अत्रोत्तरं पठति –
९४. समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च ॥ १–३–२९ ॥
कृत्स्नोपसंहारे जगदुत्पत्त्यावृत्तावपि पूर्वोक्तात्समाननामरूपत्वादेव न कश्चिद्विरोध:। तथाहि स भगवान्पुरुषोत्तम: प्रलयावसानसमये पूर्वसंस्थानं जगत्स्मरन् बहु स्याम् (छा.६.२.३) इति सङ्कल्प्य भोग्यभोक्तृजातं स्वस्मिन्शक्तिमात्रावशेषं प्रलीनं विभज्य महदादिब्रह्माण्डं हिरण्यगर्भपर्यन्तं यथापूर्वं सृष्ट्वा वेदांश्च पूर्वानुपूर्वीविशेषसंस्थितानाविष्कृत्य हिरण्यगर्भायोपदिश्य पूर्ववदेव देवाद्याकारजगत्सर्गे तं नियुज्य स्वयमपि तदन्तरात्मतयाऽवतस्थे। अतो यथोक्तं सर्वमुपपन्नम्।
(वेदापौरुषेयत्वनित्यत्वयोः स्वरूपम्)
एतदेव च वेदस्यापौरुषेयत्वं नित्यत्वं च, यत्पूर्वपूर्वोच्चारणक्रमजनितसंस्कारेण तमेव क्रमविशेषं स्मृत्वा तेनैव क्रमेणोच्चार्यत्वम्; तदस्मासु सर्वेश्वरेऽपि समानम्। इयांस्तु विशेष: – संस्कारानपेक्षमेव स्वयमेवानुसन्धत्ते पुरुषोत्तम:।
(उक्तार्थप्रतिष्ठापिकाः श्रुतिस्मृतयः)
कुत इदं यथोक्तमवगम्यत इति चेत् तत्राह – दर्शनात् स्मृतेश्च। दर्शनं तावत् यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै (श्वे.६.१८) इति। स्मृतिरपि मानवी आसीदिदं तमोभूतम् इत्यारभ्य सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधा: प्रजा:। अप एव ससर्जादौ तासु वीर्यमपासृजत्॥ तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्। तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामह: (मनु.१.५.८,९) इति। तथा पौराणिकी तत्र सुप्तस्य नाभौ पद्ममजायत। तस्मिन्पद्भे महाभाग वेदवेदाङ्गपारग:॥ ब्रह्मोत्पन्नस्स तेनोक्त: प्रजास्सृज महामते; तथा परो नारायणो देवस्तस्माज्जातश्चतुर्मुख: इति। तथा आदिसर्गमहं वक्ष्ये इत्यारभ्योच्यते सृष्ट्वा नारं तोयमन्तस्स्थितोऽहं येन स्यान्मे नाम नारायणेति। कल्पे कल्पे तत्र शयामि भूयस्सुप्तस्य मे नाभिजं स्याद्यथाऽब्जम्॥ एवं भूतस्य मे देवि नाभिपद्मे चतुर्मुख:। उत्पन्नस्स मया चोक्त: प्रजास्सृज महामते इति॥
(देवानां ब्रह्मविद्याधिकारनिगमनम्)
अतो देवादीनामप्यर्थित्वसामर्थ्ययोगाद्ब्रह्मविद्यायामधिकारोऽस्तीति सिद्धम्॥२९॥
इति श्रीशारीरकमीमांसाभाष्ये देवताधिकरणम्॥७॥