श्रीशारीरकमीमांसाभाष्ये मध्वधिकरणम्॥
(अधिकरणार्थः – वस्वादिपदं प्राप्तानामपि मधुविद्यादिषु अधिकारः)
(मधुविद्या (छा.उ. 3-1), ज्योतिषां ज्योतिर्विद्या च)
९५. मध्वादिष्वसम्भवादनधिकारं जैमिनि: ॥ १–३–३०॥
(पूर्वोत्तरार्थयोः साङ्गत्यं, प्रकृतो विषयश्च)
ब्रह्मविद्यायां देवादीनामधिकारोऽस्तीत्युक्तम् ॥
(संशयाकारः)
इदमिदानीं चिन्त्यते – येषूपासनेषु या देवता एवोपास्या: तेषु तासामधिकारोऽस्ति न इति,
(जैमिनेर्मतम्)
(पूर्वः पक्षः)
किं प्राप्तम्? नास्त्यधिकारस्तेषु मध्वादिष्विति जैमिनिर्मन्यते; कुत😕 असम्भवात् – नह्यादित्यवस्वादिभिरुपास्या आदित्यवस्वादयोऽन्ये सम्भवन्ति। न च वस्वादीनां सतां वस्वादित्वं प्राप्यं भवति, प्राप्तत्वात्; मधुविद्यायामृग्वेदादिप्रतिपाद्यकर्मनिष्पाद्यस्य रश्मिद्वारेण प्राप्तस्य रसस्याश्रयतया लब्धमधुव्यपदेशस्यादित्यस्यांशानां वस्वादिभिर्भुज्यमानानां उपास्यत्वं वस्वादित्वं च प्राप्यं श्रूयते असौ वा आदित्यो देवमधु (छां.३–१–१) इत्युपक्रम्य तद्यत्प्रथमममृतं तद्वसव उपजीवन्ति (छां.३.६.१) इत्युक्त्वा स य एतदेवममृतं वेद वसूनां एवैको भूत्वाऽग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति (छां.३.६.३) इत्यादिना॥ ३०॥
९६. ज्योतिषि भावाच्च ॥ १–३–३१ ॥
(उक्तस्यैव पक्षस्य उपष्टम्भकयुक्त्यन्तरम्)
तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् (बृ.६.४.१४) इति ज्योतिषि परस्मिन्ब्रह्मणि उपासनं देवानां श्रूयते। देवमनुष्योभयसाधारणे परब्रह्मोपासने देवानामुपासकत्वकथनं देवानामितरोपासननिवृत्तिं द्योतयति। अत एषु वस्वादीनामनधिकार:॥३१॥
(सिद्धान्तः, बादरायणमतम्)
इति प्राप्तेऽभिधीयते
९७. भावं तु बादरायणोऽस्ति हि ॥ १–३–३२ ॥
आदित्यवस्वादीनामपि तेष्वधिकारभावं भगवान्बादरायणो मन्यते। अस्ति ह्यादित्यवस्वादीनामपि स्वावस्थब्रह्मोपासनेन वस्वादित्वप्राप्तिपूर्वकब्रह्मप्रेप्सासम्भव:। इदानीं वस्वादीनामपि सतां कल्पान्तरेऽपि वस्वादित्वप्राप्तिश्चापेक्षिता भवति।
(उक्तार्थोपपादनम्)
अत्र हि कार्यकारणोभयावस्थब्रह्मोपासनं विधीयते असौ वा आदित्यो देवमधु (छा.३.१.१.) इत्यारभ्य अथ तत ऊर्ध्व उदेत्य (छां.३.११.१) इत्यत: प्रागादित्यवस्वादिकार्यविशेषावस्थं ब्रह्मोपास्यमुपदिश्यते; अथ तत ऊर्ध्व उदेत्य (छां.३.११.१) इत्यादिना आदित्यान्तरात्मतयाऽवस्थितं कारणावस्थमेव ब्रह्मोपास्यमुपदिश्यते। तदेवं कार्यकारणोभयावस्थं ब्रह्मोपासीन: कल्पान्तरे वस्वादित्वं प्राप्य तदन्ते कारणं परं ब्रह्मैवाप्नोति।
(मधुविद्यायाः ब्रह्मविद्यात्वम्)
न ह वा अस्मा उदेति न निम्रोचति सकृद्दिवा हैवास्मै भवति य एतामेवं ब्रह्मोपिनषदं वेद (छा.३.११.३) इति कृत्स्नाया मधुविद्याया ब्रह्मोपनिषत्त्वश्रवणाद्ब्रह्मप्राप्तिपर्यन्तवस्वादित्वफलस्य श्रवणाच्च वस्वादिभोग्यभूतादित्यांशस्य विधीयमानमुपासनं तदवस्थस्यैव ब्रह्मण इत्यवगम्यते। अत एवंविधमुपासनमादित्यवस्वादीनामपि सम्भवति। एवञ्च ब्रह्मण एवोपास्यत्वात् तं देवा ज्योतिषां ज्योति: (बृ.६.४.१६) इत्यप्युपपद्यते। तदाह वृत्तिकार: अस्ति हि मध्वादिषु सम्भवो ब्रह्मण एव सर्वत्र निचाय्यत्वात् इति ॥
इति श्रीशारीरकमीमांसाभाष्ये मध्वधिकरणम्॥ ८॥