(श्रीशारीरकमीमासांभाष्ये प्रमिताधिकरणशेष🙂
(पूर्वेणाधिकरणेन प्रसक्तिः)
तदेवं प्रसक्तानुप्रसक्ताधिकारकथां परिसमाप्य प्रकृतस्याङ्गुष्ठप्रमितस्य भूतभव्येशितृत्वावगत परब्रह्मभावोत्तम्भनं हेत्वन्तरमाह –
१०५. कम्पनात् ॥ १–३–४० ॥
(सूत्रार्थविवृतिः)
अङ्गुष्ठमात्र: पुरुषो मध्य आत्मनि तिष्ठति (कठ.२.४.१२) अङ्गुष्ठमात्र: पुरुषोऽन्तरात्मा (कठ.२.६.१७) इत्यनयोर्वाक्ययोर्मध्ये यदिदं किञ्च जगत्सर्वं प्राण एजति निस्सृतम्। महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति। भयादस्याग्निस्तपति भयात्तपति सूर्य:। भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चम: (कठ.२.६.४,२) इति कृत्स्नस्य जगतोऽग्निसूर्यादीनां चास्मिन्नङ्गुष्ठमात्रे पुरुषे प्राणशब्दनिर्दिष्टे स्थितानां सर्वेषां ततो निस्सृतानां तस्मात्सञ्जातमहाभयनिमित्तम् एजनं कम्पनं श्रूयते। तच्छासनातिवृत्तौ किं भविष्यतीति महतो भयाद्वज्रादिवोद्यतात्कृत्स्नं जगत्कम्पत इत्यर्थ:।
(विषयवाक्यस्य योजनायाः अनुशासनात्सिद्धिः)
भयादस्याग्निस्तपति (कठ.सू.२.६.३) इत्यनेनैकार्थ्यात् महद्भयं वज्रमुद्यतम् (कठ.२.६.२) इति पञ्चम्यर्थे प्रथमा। अयञ्च परस्य ब्रह्मणस्स्वभाव: एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत: (बृ.५.८.९), भीषाऽस्माद्वात: पवते भीषोदेति सूर्य:। भीषाऽस्मादग्निश्चेन्द्रश्च। मृत्युर्धावति पञ्चम: (तै.आ.८.१) इति परस्य ब्रह्मण: पुरुषोत्तमस्यैवं-विधैश्वर्यावगते:॥ ४०॥
इतश्चाङ्गुष्ठप्रमित: पुरुषोत्तम:
१०६. ज्योतिर्दर्शनात् ॥ १–३–४१ ॥
(सूत्रार्थविवृतिः, परस्य ब्रह्मणः ज्योतिष्ट्वं च)
तयोरेवाङ्गुष्ठप्रमितविषययोर्वाक्ययोर्मध्ये परब्रह्मासाधारणं सर्वतेजसां छादकं सर्वतेजसां कारणभूतमनुग्राहकं चाङ्गुष्ठप्रमितस्य ज्योतिर्दृश्यते– न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्नि:। तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ (कठ.२.५.१५) इति। अयमेव श्लोक आथर्वणे परं ब्रह्माधिकृत्य श्रूयते। परज्योतिष्ठ्वं च सर्वत्र परस्य ब्रह्मणश्श्रूयते। यथा – परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते (छा.८.१२.२) तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् (बृ.६.४.१६) अथ यदत: परो दिवो ज्योतिर्दीप्यते (छां.३.१३.७) इत्यादिषु। अतो अङ्गुष्ठप्रमित: परं ब्रह्म॥ ४१॥
इति श्रीशारीरकमीमांभाष्ये प्रमिताधिकरणशेष: ॥६॥